पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये तृतीयः पादः । १२९ पिबन्ताविति प्रयोगस्तु भोक्तृजीवसाहचर्यादभोक्तरीश्वरे छात्रणो गच्छन्तीतिव- दुपपद्यत इत्यविरोधः ॥ ३४ ॥

  • २३ अन्तराधिकरणम् *

पूर्वं पिबन्तावित्यस्य पदस्य लाक्षणिकत्वेन वेद्यैक्याद्विद्यैक्यमभाणि । इह तु वेद्याभेदेऽपि न विद्याभेद: 'समिधो यजती' त्यादौ यजत्यभ्यासवदात्माभ्यासा- दिति प्रत्युदाहरण सत्येदमाह- अन्तरा भूतग्रामवत् स्वात्मनः ॥ ३५ ॥ अत्र पूर्वपक्षे मिथो धर्मानुपसंहार :, सिद्धान्ते तूपसंहार इति फलभेदः । बृहदारण्यके (३-४-१, ३-५- १) 'यत् साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तर' इति द्विराम्नायते । तत्र किमनयोर्ब्राह्मणयोर्विद्याभेद उत विद्यैक्यमिति विशये भेद इति पूर्वः पक्षः । सिद्धान्तस्तु आमननादिति पदस्यानुषङ्गः । ब्राह्मणद्वयेऽपि स्वा- त्मनः सर्वान्तरत्वामननाद्विद्यैक्यं विज्ञेयम्, एकस्मिन् देहे द्वयोमुख्यतः सर्वान्तर- त्वायोगाद् भूतग्रामवद्, यथा भूतसमूहात्मकस्थूलदेहे पृथिव्यपेक्षया जलमान्तरं जलापेक्षया तेज इत्यादिक्रमेणापेक्षिकं भूतानामान्तरत्वं न मुख्यं तद्वत् । अथ वा ‘एको देवः सर्वभूतेषु गूढ' (श्वे. ६-११) इत्यादिश्रुत्यन्तरे सर्वेषु भूतप्रामेषु सर्वान्तर एक एवात्माम्नायते, तद्वदनयोर्ब्राह्मणयोरित्यर्थः । एवं च वेद्यैक्याद्विद्यैक्यामिति सिद्धम् ॥ ३५ ॥ पूर्वपक्षवीजमनूद्य दूषयति- अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ॥ - अन्यथा विद्याभेदानङ्गीकारे आम्नानभेदस्याभ्यासस्यानुपपत्तिः प्रयोजनाभा- वादिति चेन्न । उपदेशवदभ्यासस्योपपत्तिः । तथा हि - यथा छान्दोग्ये (६-८-७) 'तत्त्वमसी'त्युपदेशे नवकृत्वोऽभ्यस्यमानेऽपि न विद्या भिद्यत उपक्रमोपसंहारयोर- विशेषात्, तद्वद् ब्राह्मणद्वयेऽपि प्रश्न रूपोपक्रमस्य 'अतोऽन्यदार्तम्' (बृ. ३-४- २, ३-५-१) इत्युपसंहारस्य चाविशेषान्न विद्याभेद इति सिद्धम् ॥ ३६ ॥

  • २३ व्यतिहाराधिकरणम् *

पूर्वं यथाभ्यासस्यादरार्थत्वेन मतेरैक्यमवादि, तथा व्यतिहारोपदेशस्या- प्यादरार्थत्वान्मतेरेकरूपत्वमस्तीति दृष्टान्तसङ्गत्येदमाह -