पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये प्रथमः पादः । युलोकादिषु पञ्चाग्निषु प्रथमे लोकामौ ' तस्मिन्नेतस्मिन्ननौ देवाः श्रद्धां जुह्वति' (छा. ५-४-२) इति श्रद्धाया आहुतित्वश्रवणादपामश्रवणात् कथं पुरुष- वचस्त्वमिति चेन्न, हि यत 'आपो हास्मै श्रद्धां सन्नमन्ते' इति श्रद्धाशब्देन तद्धेतवस्ता एवापो लक्ष्यन्ते । अतः प्रश्ननिरूपणयोरुपपत्तेरित्यर्थः ॥ ५ ॥ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥ श्रद्धाशब्दितानामपां पुरुषवचस्त्वेऽपि तद्वेष्टितत्वं जीवस्य न युज्यते अ बादिवज्जीवस्याश्रुतत्वादिति चेन्न, कुतः, 'अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपा- सते ते धूममभिसम्भवन्ति’ (छा. ५१०-३) इत्यादिना वाक्यशेषेणेष्टापूर्त्तकर्मका- रिणां प्रतीतेरित्यर्थः ॥ ६॥ नन्विष्टादिकारिणां धूमादिमार्गेण चन्द्रलोकं गतानां 'तं देवा भक्षयन्ति' (छा. ५-१०-४) इति देवैर्भक्ष्यत्वं श्रूयते । अतः कथं तेषां स्वकर्मफलभोगसि- द्धिरित्यत आह - भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति ॥ ७ ॥ वाशब्दश्चोदितदोषनिरासार्थः । तेषामिष्टादिकारिणामन्नत्वं भाक्तमेव न मुख्यम् अन्यथा ‘स्वर्गकामो यजेत' इति श्रुतिव्याकोपात् । अतस्तेषामनात्मवि- त्त्वाद् देवोपभोग्यत्वमेवान्नत्वम् । तथा हि दर्शयति 'अथ योऽन्यां देवतामुपास्ते' (बृ. १-४-१०) इत्यादिश्रुतिरित्यर्थः । तस्मात् परलोकभोगार्थं भूतसम्परिष्वक्त- स्य रंहणमिति सिद्धम् ॥ ७ ॥

  • २ कृतात्ययाधिकरणम्

पूर्व कर्मसमवेतानामपां पञ्चमाहुतौ पुरुषात्मना परिणामश्रवणं हेतुमाश्रिी- त्याबादिभूतपरिवेष्टितस्य रंहणमुक्तम् । तदयुक्तं, स्वर्गादवरोहतां जीवानां कर्मा- भावेन तत्समवेतानामपामप्यभावादित्याक्षपसङ्गत्येदमाह - - कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥ अत्र पूर्वपक्षे अवरोहतां कर्माभावेन तदनुगुणतिर्यगादियोनिप्राप्त्ययोगान्न कर्मफलेषु वैराग्यं सिद्धान्ते कर्मणः सत्त्वाद्वैराग्यमिति फलभेदः । एवं हि स्वर्गि- १. 'प: स्यात्' खपुस्तके पाठः. २. 'श्चम्यामाहु' खपुस्तके पाठः,