पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/22

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २१ )
नीति कथा माला ॥

एताभ्यां शौर्य्येण, रूपेण, विद्याभ्यासेन कौशलेन वा हीनः ? येन माम् उपहसतः । तत् मया अवश्यम् एतौ व्यापादनीयौ ।" तत् आकर्ण्य तस्य जीवितम् इच्छन्ती अन्तर्विहस्य प्राह,

“शूरोऽसि, कृतविद्योऽसि दर्शनीयोऽसि, पुत्रक ।
यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥

 ७. तत् सम्यक् शृणु वत्स, त्वं शृगालीसुतः । कृपया मया स्वस्तनक्षीरेण पुष्टिं नीतः । तत् यावत् एतौ मम पुत्रौ शिशुत्वात् त्वां शृगालं न जानीतः, तावत् द्रुततरं गत्वा स्वजातीयानां मध्ये भव । नोचेत्, आभ्यां हतो मृत्युपथं समेप्यसि ।"

 ८. सोऽपि तस्या वचनं श्रुत्वा भयेन व्याकुलमनाः शनैः शनैः अपसृत्य स्वजात्या मिलितः ।


घण्टोष्ट्रस्य

कथा ( १० )

 १. कस्मिंश्चित् अधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसतिस्म । स च अतीव दारिद्र्योपहतः चिन्तितवान्, "अहो धिक्, इयं दरिद्रता अस्माकं गृहे ! यतः, सर्वोऽपि जनः स्वकर्मणि रतः तिष्ठति । अस्माकं पुनः व्यापारो न अत्र अधिष्ठाने अर्हति । यतः, सर्वेषां लोकानां चिरन्तनाः चतुर्भूमिकाः गृहाः