पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/2

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

नीतिकथामाला।

धर्मबुद्धिपापबुध्योः

कथा ( १ )

 १. कस्मिश्चिदधिष्ठाने, धर्मबुद्धिः पापबुद्धिश्च, द्वे मित्रे प्रति वसतः स्म । अथ कदाचित् पापबुद्धिना चिन्तितम्, “अहं तावत् मूर्खो दारिद्र्योपेतश्च । तदेनं धर्मबुद्धिमादाय, देशान्तरं गत्वा, अस्याश्रयेण अर्थोपार्जनं कृत्वा, एनमपि वञ्चयित्वा, सुखी भवामि" ।

 २.अथान्यस्मिन् अहनि पापबुद्धिः धर्मबुद्धिं प्राह, "भो मित्र ! वार्द्धकभावे किं त्वमात्मविचेष्टितं स्मरसि, देशान्तरमदृष्ट्वा कां शिशुजनस्यवार्तां कथयिष्यसि ।

विद्यां, वित्तं, शिल्पं, तावन्नाप्नोति मानवः सम्यक् ।
यावद् व्रजति न भूमौ देशाद्देशान्तरं हृष्टः ।

 ३. अथ तस्य तद्वचनमाकर्ण्य प्रहृष्टमनाः तेनैव सह गुरुजनानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः। तत्र च धर्मबुद्धिप्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तम् आसादितम् । ततश्च द्वावपि तौ प्रहृष्टौ स्वगृहं प्रति औत्सुक्येन निवृत्तौ ।