सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

टिप्पणी परिशिष्टम् 61 १-१. तत् सर्वमिति । अनेन प्राज्ञस्य गुरोः सविधं गत्वा सर्वसंशयपरिहारः कार्य इत्यभिप्रायोदयात् पूर्व षडिमे ऋषयः स्वस्वविदितं परस्परमुक्ता चिरं विचार्य अनधिगत- निर्णयाः क्लेशमन्वभवन् इति व्यज्यते । १-११, ऋक्संहितायामयं मन्त्रः पठितः । तत्र पदपाठे 'उपरे' इत्येकं पदम् 1 अस्य मन्त्रस्य सायणभाष्यमेवं दृश्यते--- 'पश्चपादं पञ्चसंख्याकर्त्वात्मकपादोपेतम् । एतत् हेमन्तशिशिरयोः एकत्वाभिप्रायम् | पितरं सर्वस्य प्रीणयितारम् । द्वादशाकृतिं द्वादश मासा एवाकृतयो यस्य तादृशम् । पुरीषिणं वृष्टयुदकेन तद्वन्तं प्रीणयितारं वा । पुरीषमित्युदकनाम । उक्तलक्षणं संवत्सरचक्रं दिवः धुलोकस्य परे अर्धे । तात्स्थयात्ताच्छब्धम् । परस्मिन्नर्धे अन्तरिक्षलक्षणे अवस्थितः आदित्यः इत्यर्थः । तस्मिन् अर्पितम् आहुः । एतदुत्तरत्र स्थितमन्त्राप्यनुषज्यते । यद्यत्रार्पितं तत्त- दधीनम्। अतः संवत्सरं सूर्यायत्तमाहुरित्यर्थः । अथ अपि च इमे अन्ये केचन वेदवादिन एवमाहुः । किमिति ! उपरे उपरमन्ते अस्मिन् (इति), उपरताः प्राणिनः अत्र इति वा उपरः संवत्सरः तस्मिन् । कीदृशे । सप्तचक्रे सप्त आदित्यरश्मयस्तद्वारेण चक्रस्थानीया यस्य स तथोक्तः । यद्वा । अयनर्तुमासपक्षाहोरात्रिमुहूर्तानि सप्त सप्त चक्राणि पुनः पुनः क्रममाणानि यस्य तादृशे । षळरे षड्तव एव अरा: नाभौ प्रत्युताः संबद्धाः यस्य तथोक्तलक्षणे संवत्सरे रथे विचक्षणं विविधदर्शनकरमादित्यम् अर्पितम् आहुः । एतदुक्तं भवति । अमुमादित्यं दक्षि- णोत्तररूपभिन्नगतेः तीव्रमन्दादिभावस्य च कालाधीनत्वात्तदधीनमाहुः । अन्ये तु संवत्सराद्यात्म- कस्य कालस्य सूर्यगमनागमनसाध्यत्वात्, तदायत्तमाहुः इति।" २-८. अथर्ववेदोक्तं शान्तिकपौष्टिककर्म सर्व यत् सत्यं फलाविनाभावि भवति तत् त्वदधीनमित्यप्यर्थोऽनुसन्धेयः। ३-२ ब्रह्मिष्टोऽसीति । इयं प्रशंसा उत्तरप्रश्नत्रयकारिषु सौर्यायणिप्रभृतिष्पप्यनु. सन्धया। आदौ नामनिर्देशे चतुर्ष्वपि चकारघटनेनोत्कर्षव्यञ्जनात् । कबन्धिभार्गवयोरेव तद- घटनेनापकर्षप्रतीतेः। ४-१. इन्द्रियादीनामुपकरणानां बुद्धिस्थत्वात् प्रश्ने कानीति नपुंसकता। प्रतिष्ठां गच्छत्सु जीवस्याप्यन्तर्भावात् तत्प्राधान्यपरामर्शेन ‘कस्मिन्नु सर्वे' इति पुंस्त्वमिति विभाव्यम्। ४-५. कस्यैतत्सुखं भवतीति पूर्वप्रश्नस्य जागरावस्थाविषयतया योजितत्वात् अस्यापि स्वप्नैकविषयत्वनिर्बन्धो नास्तीति भाष्यकृदाशयः प्रतीयते । उपक्रमाविरोधेन प्रश्नद्वयमपीदं स्वापावस्थआविषयमेव मभवितुमर्हतीति भाति ।