सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५१ 24973) नायजा २0141:24 15,551 ५.७.] प्रश्नोपनिषत् ऋग्भिरेतं यजुर्भिरन्तरिक्षं 'ससामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमाजमातमभयं परश्चेति ।। ७॥ इति पञ्चमः प्रश्नः। ऋग्भिरेतमिति । सः विद्वान् ऋग्भिः सामभिर्यत्तत्कवयो वेदयन्ते कवयः क्रान्तदर्शिनः विष्णोः परमं पदं दा पश्यन्ति सूरय" इत्युक्तरीत्या सूरयो यं लोकं पश्यन्ति ओङ्कारणैव मार्गेणा- न्वेति । गत्वा च शान्तं ऊर्मिषट्करहितं, अजरं जरामरणशून्यं, अभयं अकुतोभयं, परं सर्वकारणत्वेन सर्वोत्कृष्टं ब्रह्म च प्राप्नोतीत्यर्थः ॥ ७ ॥ अस्य सन्दर्भस्य परमात्मपरस्त्वं "ईक्षतिकर्म व्यपदेशात्स" इति सूत्रकारै प्रत्यपादि । तदर्थस्तु सद्भाष्ये इत्थमुक्तः । " आथर्वणिकाःसत्यकामप्रश्नेऽधीयते "यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव(?) स पाप्मना विनिर्मुक्तः ससामभि- रुन्नीयते ब्रह्मलोकं स (तस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षत " इति । अत्र ध्यायतीक्षतिशब्दावेकविषयौ । ध्यानफलत्वादीक्षणस्य । " यथाक्रतुरस्मिन् लोके पुरुष" इति न्यायेन ध्यानविषयस्यैव प्राप्यत्वात् । परमपुरुषमित्युभयत्र कर्मभूतस्यार्थस्य 5.आना. १. आ. ना. पू. 'स' नास्ति। आ. ना. 'अयनेनान्वेति। 3.ना. 'परं परायणं चेति'। 4. आ. ना. "ऋम्भिरेतं ऋम्भिर्मनुष्यलोकमित्यर्थः । यत् तत् कवयो वेदयन्ते । कवयः क्रान्तदर्शिनः । 'सद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः' इत्युक्तरीत्या सूरयो य लोकं पश्यन्ति तमोङ्कारेणैव मार्गेणान्वेति । गत्वा च शान्तमूर्मिषट्करहित जरामरणशून्य अकुतोभयं सर्वकारणत्वेन सर्वोत्कृष्ट ब्रह्म च प्राप्नोतीत्यर्थः। पू. कवय इत्यत आरभ्यैव वर्तते । .परत्वं भगवता बादरायणेन प्रतिपादितम।' .आ. ना. अनयोरुभयोरपि भाष्यग्रन्थस्थाने तदर्थसङ्गहमासमेवं शश्यते । – 'मत्र हि पृथिव्यन्तरिक्षलोक- प्रायपाठात् ब्रह्मलोकशब्दस्य चतुर्मुख एव सम्भवात चतुर्मुखः । इसि पूर्वपक्षे प्राप्ते इक्षतिकर्म व्यपदेशात् स' इति सूत्रेण सिद्धान्तितम । पुरिशयं पुरुषमीक्षत इति ईक्षतिकमतया व्यपदिश्यमानः परमात्मा । शान्तत्वाजरत्वामृतत्वाति- परमात्मासाधारणधर्मव्यपदेशावित्यर्थ इति ।