सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४. १०-११.] प्रश्नोपनिषत ४५ परमेवाक्षरं प्रतिपद्यते । स यो ह वै तदच्छायमशरीरम- लोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वत्रःसर्वी' भवति । तदेष श्लोकः ॥ १० ॥ स यो ह वै तदिति । अत्र च्छायाशब्देन ज्ञानसंकोचकं कर्मोच्यते । अच्छायं अपापमित्यर्थः । अत एवाशरीरं, अलोहिते रूपादिशून्यं, शुभ्रं स्वप्रकाशंर्, अक्षरं क्षरणशून्यं, परमात्मानं वेदयते जानाति, सः हे सोम्य प्रियदर्शन (परमेवाक्षरं ब्रह्म वासुदेवं प्रतिपद्य) सर्वज्ञो भवति । सवीं 'भवति सर्वकामयुक्तो भवति । तदेष श्लोक इति । तत् ब्रह्माभिमुखीकृत्यैष श्लोक इत्यर्थः ।। १० ॥ जीवस्य परमात्मना सम्बन्धः नार्थान्तरसाधारणः । अपि तु तथा तद्यथा स्त्रिया सम्परिष्वक्त' इति दृष्टन्तनिरूप्यविलक्षणाकारः परिष्यङ्ग इति बोधयन्तो श्रुतिरुपरि ब्रवीति-- परमेवाक्षरं प्रतिपद्यत इति । एतदविवरणपरं भाष्ये बहुषु कोशेषु न दृश्यते ' क्वचित् अनन्तर- वाक्यविवरणाभ्यन्तरे ‘परमेवाक्षरं ब्रह्म वासुदेवं प्रतिपद्य ' इनि पठयते । तत्रानन्वितमिदमिह अपकृष्य योज्यम् । ते प्रतिपद्यत इत्याख्याततया परिणमयितव्यं च । सर्वीति । सर्वमस्यास्तीति सर्वीति इनिप्रययान्त शब्द इति भावः कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति प्रश्नस्य समाधाने पूर्वगखण्डेनैव कार्त्स्न्यनोक्तेऽपि प्रसङ्गात् श्रोतृणां पर आत्मनि अत्यन्तादरजननाय परमपुरुषार्थसाधनज्ञानत्वेन तस्य स्तुतिः क्रियत इति पूर्ववत् द्रष्टव्यमितीह भाष्यकृदाशयोवधातव्यः । ब्रह्मेति । सर्वसम्प्रतिष्ठभूतं ब्रह्मेति हृदयम् । विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र । "शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञःसर्वमेवाविवेशेति॥११॥ विज्ञानात्मेति । सर्वैर्देवैः वागादीन्द्रियै सह मुख्यप्राणः भूतानि महा- भूतानि च जीवात्मा च यत्र प्रतितिष्ठन्ति तादृशं शुभ्रं अक्षरं स्वप्रकाशमक्षरं' परमात्मानं यो जानाति स सर्वज्ञः सर्वमपि कामजातं आविवेश आविशति । 3, 'सद- 1. पू. ना. 'सर्वः'। 2. आ. ना. पू. 'अन' नास्ति । क्षर मित्यन्यत्र पाठः। 4.अ.पू. 'स्वप्रकासमक्षरं' नास्ति। 5. प्र. 'कार्य: जाधम्।