सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२.११.१२.] प्रभोपनिषत् २९ अभिलषितार्थाय पर्याप्तमन्नं भविष्यतीति । " तद्यदा सुवृष्टिर्भवति आनन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यति " ति छान्दोग्ये (७-१०-१) श्रवणादिति द्रष्टव्यम् ॥१०॥ आराधनेन प्रीतस्त्वमेव फलं ददासीत्येतन्मन्त्रार्थः । व्रात्यस्त्वं प्राणैक ऋषिरत्ता विश्वस्य सत्पतिः । वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ ११ ॥ व्रात्यस्त्वं प्राणेति । हे प्राण संस्कारहीनो ब्राह्मणोऽपि त्वमेव' । मुख्यो मन्त्रद्रष्टा ऋषिरपि त्वमेव । विश्वस्य अत्ता संहर्ता च त्वमेव । सतां साधूनां रक्षकोऽपि त्वमेव । वयं ते आद्यस्य अदनीयस्य भोग्यस्य दातारः कर- प्रदाः । किंकरा इति यावत् । हे मातरिश्वत् त्वं नः पिताऽसि पोषकोऽसीत्यर्थः । मातरिश्वनः ' इत्यत्र' नकारद्वित्वाश्रवणं छान्दसत्वादिति द्रष्टव्यम् ।। १५ ।। संस्कारहीन इति । अनुपनीतस्य कुतोऽध्ययनम् ! कुतस्तरां वेदार्थज्ञानम् ! कुतस्तमामात्मज्ञानम् ? तादृशगर्हणीयजडतमरूपोऽसि त्वम् । न च तेन ते काचन हानिः । उत्तमऋषिरूपोऽसि । न च तेन कश्चिदतिशयः । एवं संहरणेन पालनेन वा न ते कश्चन विशेषः । अतो यद्युत्क्रामन् अस्माकमनर्थमुत्पादयसि यदि वा तिष्ठन प्रतिष्ठापयसि न तेन ते कश्चिद् विशेषो भवति । अथापि अस्माकं तव च विद्यमानं सम्बन्धविशेष विचिन्त्य वयं रक्षणीयाः । क स सम्बन्ध इति चेत् तव यद् भोग्यं तस्य वयुमुपहर्तारः किङ्कराः । उपहृतं यथोचितमुपयुज्य त्वत्पुत्रकल्पानामस्माकं पोषकत्वम् । अयं स सम्बन्धः । ततोऽनुग्राह्य वयमिति । अस्य मन्त्रस्य छायामनुसरत् श्रीदेशिकस्य अभीतिस्तवपद्यमिदं इहानुसन्धेयम्- निसर्गनिरनिष्टता तव निरंहसः श्रूयते ततस्त्रियुग सृष्टिवद् भवति संहतिः कीडितम् । तथापि शरणागतप्रणयभङ्गभीतो भवान् मदिष्टमिह यद् भवेत् किमपि मा स्म तज्जीहपत् ।। या तै तनूवाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥१२॥ 1. आ.' प्रतिषु साधुः व्रत्यः । स एव प्रात्य इति युक्तम् । स्पष्टा चेयं रीति- रुज्ज्वलायामादित्यप्रकरणे इति टिप्पणी दृश्यते । 2.आ.व्यतिरिषु 'इति' नास्ति।