पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ श्रीरङ्गरामानुजभाष्ययुक्ता [२. ६. अन्नभूतो देवः' । चन्द्रमा इति यावत् । सदसच्छब्दौ वर्तमानावर्तमानपरौ, प्रत्यक्षाप्रत्यक्षपरौ वा, स्थूलसूक्ष्मपरौ वा, चेतनाचेतनपरौं वा । अमृतशब्दो मोक्षपरः । तस्यापि तदधीनत्वादिति भावः ।। ५॥ ५. स्तुतिमेवाहेति । प्रश्नावसानपर्यन्तसर्वमन्त्रावतारिकेयम् । एषोऽपिरिति । अग्निः पृथिवी देवता । स प्राण एव । सूर्यो द्यु देवता । स एव वृष्टिप्रवर्तकतया पर्जन्य इति मघवानिति च प्रथते । सोऽपि प्राण एव । वायुरन्तरिक्ष देवता । सोऽपि प्राणः । एवं स्थानिदेवतात्मत्वमुक्तम् । अथ स्थानभूतलोकात्मत्वमाह-- एष पृथिवीति । अन्तरिक्षं द्यौश्च उपलक्ष्येते। अथ निशा- प्रकाशसूर्यव्यतिरिक्तसर्वज्योतिरात्मत्वमभिप्रेत्याह-रयिर्देव इति । एवं लोकात्मत्वं लोकपाला- त्मत्वं चोक्तम् । अथ लोकान्तर्गतसर्वपदार्थात्मत्वमाह-सदसश्चेति । इत्थं संसारमण्डलं कृत्स्नमेतदधीनसत्ताकमित्युक्ता एतदतिक्रम्य प्राप्या मुक्तिरप्येतदधीनेत्यभिप्रेत्याह-अमृतं चेति । एष रयिर्देवः ; यत् सदसञ्च अमृतं च तत् एष इत्यन्वयः | सदसच्छन्दाविति । अस्ति विद्यतं इत्यर्थकरणात् वर्तमानाद्यर्थता। विद्यमानमात्रो- पलम्भनत्वादन्यथात्वाच्च प्रत्यक्षाप्रत्यक्षज्ञानयोः प्रत्यक्षेत्यादि । 'असद्वा इदमन आसीत् । ततो वै सदजायत इत्यादिप्रयोगपरमर्शेन स्थूलेत्यादि । 'नासतो विद्यते भावो नाभावो विद्यते सतः' इत्यानुसारेण चेतनेत्यादि। अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । ऋचो यजूंषि सा- मानि यज्ञः क्षत्रं ब्रह्म च॥ ॥ अरा इवेति । चक्रस्य नाभिनेभ्यन्तराळवर्तीनि' काष्ठानि अरशब्देनो- च्यन्ते । चक्रस्य मध्यप्रदेशो नाभिशब्देनोच्यते । यथा अरा नाभावर्पिताः एवम- स्मिन् प्राणे सर्व प्रतिष्ठितमित्यर्थः । सर्वशब्दार्थ स्पष्टयति-~-ऋचो यजॅूषीति । अत्र ब्रह्मक्षत्रशब्दौ स्थावरजङ्गमात्मकप्राणिमात्रोपलक्षकौ ॥६॥ ६. सदसच्चेति पूर्वं यदुक्तं तदेवात्र विशदीक्रियते । तत्र इमे विशेषाः । पूर्व सामानाधि- करण्येनोक्तिः । इह तु 'प्राणे सर्वं प्रतिष्ठितम् ' इति वैयधिकरण्येन । अरा इव रथनाभावित्ति दृष्टान्तघटना | निदर्शनार्थं ऋचो यषि सामानीति कतिपयप्रधानभृतविशेषनिर्देशश्चेति । अत्र 'ज्ञानं कर्म च कर्ता च ' इति गीतानिर्देशक्रमः स्मर्यत इति विभाव्यम् । 1. प्र. 'अभूतो देवः'. पू. रयिर्देवः । चन्द्रमा इनि यावत्। म. 'नामिनेभ्योः' पू. ना. 'नामिनेमेः'। .. ना.व्यतिरिक्तेषु'...शब्दः ... उपलक्षकः'।