पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२.२. प्रश्नोपनिषत् शये । एषः प्रसिद्धः आकाशः. दीव्यति देवः गमनशील: तादृशो वायुश्च, अग्निरापः पृथिवी । स्पष्टोऽर्थः' । वाक्छब्देन कर्मेन्द्रियाणि सर्वाणि 'उपलक्ष्यन्ते । चक्षुःश्रोत्र- शब्देन ज्ञानेन्द्रियाणि । ते प्रकाश्याभिवदन्तीति | आकाशादयः सर्वे मिलित्वा'. पुरोवर्ति शरीरं प्रदर्श्य अभितः स्थित्वा वदन्ति स्म । किमिति? वयं बाणवत् सञ्चार- शीलं एतत पुरोवर्ति शरीरमवलम्ब्य विधारयामः । अवकाशादिविविधकार्यक्षमतया धारयाम इत्यर्थः ॥ २॥ आख्यायिकां कथाम् । प्रसिद्धयतिशय इति । एष ह वै आकाश ' इत्यन्वयं कृत्वा भूतेषु पञ्चमत्वेन लोके तस्माद्वा -एतस्मादात्मन आकाश ' इति सृष्टिप्रकरणेषु प्रथमत्वेन वेदे चात्यन्तं प्रसिद्ध आकाश इत्यर्थो बन्य इति भाव. । गमनशीलः । देवो वायुरिति वायुमात्र- विशेषणताप्रतीत्या तदसाधारणधर्मपरो देवशब्द इति ! वायुश्चेति । श्रोत्रं चेति अन्ते श्रुतश्च- शब्दः सर्वसमुच्चायक इति ज्ञानाय इह योजित हात ज्ञेयम् । कर्मेन्द्रियाणीति ' शरीरारम्भ- काणि पञ्चभूतान्युक्तानि | अथ तदाश्रितानि द्वविधानि इन्द्रियाण्युच्यन्ते । तत्र कर्मेन्द्रियेषु वाच: प्राधान्यम् । मनुष्यासाधारणत्वात् । परोपदेशसाधनत्वाच्च । तस्मात्तया इतरेषामुपलक्षणम् । अन्तरिन्द्रियत्वेन वैलक्षण्यात् सर्वज्ञानसाधनत्वाच्च ज्ञानेन्द्रियेषु मनसः प्राधान्यम् । तस्मात् तस्य कण्ठतो निर्देशः । बाह्यज्ञानेन्द्रियेषु चक्षुषः प्राधान्यं प्रसिद्धम् । अलौकिकार्यप्रमापकश्रुतिग्रहण- साधनतया श्रोत्रस्यापि तत्तुल्यं प्राधान्यामिष्यते। तस्मादनयोरुभयोरुपादानमित्याकूतम् । ते प्रका- श्येति । नबु नपुंसकमनपुंसकनेस्यनुशासनात तानोति नपुंसकलिङ्गेन भाव्यम् । न पुंलिङ्गनेति चेन्न। ते देवा इति विवक्षितत्वात् । अथैवं सति एषः प्रजां विधारयन् एतत्प्रकाशकः देवः आकाशः । वायुश्च । त्यग्निश्च' इत्येवं पृथग्वाक्यतया व्याख्याय ‘कत्येव देवाः प्रजा विधारयन्ते' 'कतर एतत्प्रकाशयन्ते' इति प्रश्नद्वयस्य 'आकाशादय एतावन्तो देवाः प्रजा विधारयन्ते' इत्युत्तरमुक्तं भवतीनि व्याख्यातुं शक्यत्वे औचित्ये च सति किमिति तच्छब्दपरामर्शोपयोगितया आकाशो ह वा इत्यादिना पदार्थानिर्देशमात्रमिति व्याख्यातमिति चेत् सावधानं श्रोतव्यम् । कत्येव देवा इत्यवधारणार्थः प्रश्नः । तत्र आकाशो ह वा इत्यादि न प्रतिवचनं भवितुमर्हति । एतेषामेव धारकत्वाभावात् । मा मोहमापद्यथाहमेवैतद्वाणमवष्टभ्य विधारयामीति प्राणधारकत्वस्य वक्ष्यमाण- त्वात्। तस्मात् आद्ययोः प्रश्नयोर्यथायथं प्रतिवचनमर्थलभ्यमेवेति कृत्वा एवं व्याख्यातमिति । मिलित्वेति। ते वदन्तीत्येकपदोपादानाकभमिदम् । पुरोवर्तीति । प्रकाश्येत्यस्य कर्मापेक्षायां वाक्योपात्तकियान्तरकर्मैव इहाप्यन्वेतीति भावः । प्रकाश्येत्यस्य अत्र सङ्गतमर्थ- माह -- प्रदर्श्येति । निर्दिश्येत्यर्थः । अमितः स्थित्वेति । उपसर्गार्थस्य सर्वपार्श्वसम्बन्धित्वस्य वदनक्रियायां साक्षादसम्भवात स्थितिक्रियाद्वाराऽन्ययो वाच्य इति भावः । बाणवादिति | बाण- 17. 'स्पष्टोऽर्थः'नास्ति । 2. आ. ना. सर्वकर्मेन्द्रियाणि । 3. पू. मिलिताः