पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरारामानुजमाष्ययुक्ता [१.१०. “ ब्रह्मचर्येण, आस्तिक्यबुद्धिलक्षणया श्रद्धया, प्रत्यगात्मविद्यया, परमात्मानमुपास्य, अर्चिरादिना उत्तरेणायनेन' "आदित्याञ्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवःस एनान् ब्रह्म गमयती "त्युक्तप्रकारेण ब्रह्मप्राप्तिद्वारभूतमादित्यं अभिजयन्ते प्राप्नुवन्तीत्यर्थः । अन्वेष्टन्यतया निर्दिष्टमात्मानं स्तुवन् तेषामपुनरावृत्ति दर्शयति- एतद्वै प्राणानामिति । आयतनशब्दापेक्षया एतदिति नपुंसकलिङ्गनिर्देशः । प्राणानां प्राणभृतां आयतनं आधारभूतम् । " तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा आर्पिता एवमेवैता भूतमालाः प्रज्ञामात्रास्वर्पिताः । प्रज्ञामात्राः प्राणे अर्पिता" इति परमात्मनः सकलचेतनाधारत्वोक्तेः । एतत् परायणं परमप्राप्यमित्यर्थः । एतस्मान्न पुनरावर्तन्ते । उपासका इति शेषः । उत्तरेण मार्गेण गताः 'मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यत" इत्युक्तरीत्या परमात्मानं प्राप्य न निवर्तन्त इत्यर्थः । एष निरोधः । एप: "प्रजाकामो वै प्रजापति"रिति प्राक प्रजापतिशब्दनिर्दिष्टः परमात्मा स्वं प्राप्तस्य पुनरावृत्तिनिरोधकारी । अतस्तं परमात्मानं प्रजापतिशब्दितं प्राप्तस्य तदुपासकस्य अपुनरावृत्तिरुपपद्यत इति भावः । अत्र एव इत्येतच्छदेन प्रजापतिपरामर्शात् आत्मानमन्विष्येत्यात्मशब्दोऽपि प्रजापतिपर एव । अत एव एतत्सर्वमभिप्रेत्य सर्वव्याख्यानाधिकरणे व्यासार्यै: "तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते एतस्मान्न पुनरावर्तन्ते " इति अर्चिरादिगत्या अपुनरावृत्तिप्रतिपादनात्। " प्रजाकामो वै प्रजापति"रिति प्रजापतिशब्दनिर्दिष्टः परं ब्रह्मेति प्रतिपादितमिति द्रष्टव्यम् । ततश्च प्रजापतिमुपासीनस्यार्चिरादिगत्यप्रतिपादनात् कथं प्रजापतेर्ब्रह्मत्वमिति शङ्का निरा- कृता' । तदेष श्लोकः तत् तस्मिन् संवत्सरात्मनि प्रजापतौ वक्ष्यमाणः श्लोक इत्यर्थः ॥ १० ॥ १०. वाक्यान्तरेति । उत्कृष्टोत्तरायणप्रतिपादनपरवाक्येत्यभि सन्धिः । अमिजयन्त ; के न तद्वाचकं पदमुपासम् कोऽभिप्रायः तेडताव दुर्लभा इति भूयिष्ठतया सुलभत्वे हि इमे' इति निर्देशः क्रियेत : उत्तरमार्गानष्ठास्तु अत्यन्त विरलः, अत्यन्तं दुर्लभाः । किञ्च ‘इमे' इति निर्देशोऽप्यस्माकं तान्प्रत्यपचाराच कल्पेतेति विभेति श्रुतिः । .प्र. 'अचिराद्यत्तरायणेन'। ५.आ. 'प्राणभूतानाम' 3. प्र. 'एव' नास्ति' 4. प. पू. इदं वाक्यं नास्ति। 5. आ. “संवत्सराख्य"।