पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् आगर्भं यावदेषां कुलमिदमखिलं नैव निःशेषयामि स्फूर्जन्तः क्रोधवहेर्न दधति विरतिं तावदङ्गे स्फुलिङ्गाः ॥ ३३ ॥ ( विलोक्य ) एष स्वामी । तदुपसर्पाम: । ( सर्वे उपसृय) जयतु जयतु देवः । महामोहः— श्रद्धायास्तनया शान्तिरस्मद्वेषिणी । सा भव- द्भिरवहितैर्निग्राह्मेति । सर्वे – यदादिशति देवः । - ( इति निष्क्रान्ताः ।) महामोहः– श्रद्धायास्तनया इत्युपक्षेपेणोपायान्तरमपि हृदय- मारूढम् । तथाहि । शान्तेर्माता श्रद्धा | सा च परतन्त्रा । तत्के- नाप्युपायेनोपनिषत्सकाशात्तावच्छ्रद्धापकर्षणं कर्तव्यम् । ततो मा- तृवियोगदुःखादतिमृदुलतया शान्तिरूपरता भविष्यति । श्रद्धां व्या- क्रष्टुं मिथ्यादृष्टिरेव विलासिनी परं प्रगल्भेति तदस्मिन्विषये सैव नियुज्यताम् । ( पार्श्वतो विलोक्य ) विभ्रमावति, सत्वरमाहू- यतां मिथ्या दृष्टिर्विलासिनी । ७ नयः | आगर्भमित्यादि । एषामिदमखिलं कुलमागर्भ यावदेव न निःशे- षयामि तावत्पर्यन्तं क्रोधवहेर्विस्फुलिङ्गाः स्फूर्जन्तो जाज्वल्यमाना विरतिं न प्राप्नुवन्तीत्यन्वयः ॥ ३३ ॥ विलोक्येत्यारभ्य निष्कान्ता इत्यन्तं स्पष्टम् । उपक्षेपेण स्मृत्युद्बोधेन । तथाहीत्यादि तदस्मिन्विषये सैव नियुज्यतामित्यन्तं स्पष्टम् । अत्रार्तिशान्तिप्रतीतेः शमो नाम प्रतिमुखसन्धेश्चतुर्थमङ्गम् । तल्लक्षणं दीनामप्युपालम्मे । अन्येषामुपालम्भे कैव कथेत्यभिप्राय: । आगर्भमिति । क्रोध- वः स्फुलिङ्गा अङ्गे शरीरे विरतिं विरामं न दधति नोररीकुर्वन्ति । कुत इत्याह । यावदेषां बन्ध्वादीनामखिलं समस्तं कुलमागर्भ गर्भावधि नैव निःशेषयामि निःशेषं करोगि तावत्स्फुलिङ्गा न विरता भवन्तीत्यर्थः । कीदृशाः स्फुलिङ्गाः । स्फूर्जन्ती देदीप्यमानाः । मारणादिनैव क्रोधः शाम्यतीति हृदयम् ॥ ३३ ॥ उपक्षेपेणोपक्रमेण हृदयं प्रत्यागतम् । उपायान्तरनाह -- तथा हीति । परतत्रा १ ‘भवद्भिर्निग्राह्येति' इति पाठः । २ अत्र 'अवसीदन्ती विनशिष्यति' इति पाठः । ३ 'मिथ्यादृष्टिः' इति पाठः ।