पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् - चार्वाक: – (उपविश्य ) एष कैले: साष्टाङ्गं प्रणामः । महामोहः – अये कले, भद्रमव्याहतम् ? । चार्वाकः– देवप्रसादात्सर्वत्र भद्रम् । - देवपादमूलं द्रष्टुमिति । यतः - आज्ञामवाप्य महतीं द्विषतां निपाता- न्निर्वर्त्य तां सपदि लब्धसुखप्रसादः । उच्चैः प्रमोदमनुमोदितदर्शन: सन् ७५ निर्वर्तितकृत्यैशेषश्च धन्यो नमस्यति पदाम्बुरुहं प्रभूणाम् ॥ २४ ॥ महामोह: – अथ तस्मिन्कलौ कियेत्संवृत्तम् । चार्वाक : – देव, - इति । हे महाराज, अयं कलिस्त्वां नमस्करोतीत्यर्थः । अये इतिश् । भद्रं कुशलमव्याहतम् । निर्वर्तितेति । निर्वर्तितो निष्पादितः कृत्यशेषः कार्यशेषो येन स तथोक्तः । कार्यशेषं निर्वर्त्य द्रष्टुमागमिष्यतीत्यर्थः ॥ यतः - आज्ञेति । महतीं भवदीयामाज्ञामवाप्य शिरसि निधाय तामाझां द्विषतां निपाताच्छत्रुसं- हारेण निर्वर्त्य निष्पाद्य सपदि सद्यो लब्धसुखप्रसादः सन् | कलिरित्यर्थः । उच्चैःप्रमोदम् । क्रियाविशेषणमेतत् । अनुमोदितदर्शनः । दर्शनार्थमनुज्ञात इ- व्यर्थः । धन्यः कलिः प्रभूणां स्वामिनां भवतां पदाम्बुरुहं नमस्यतीत्यन्वयः ॥ २४ ॥ महामोह इत्यादि । अथेति प्रश्ने । कित्संवृत्तम् । कलिना कियत्कृतमि- हितार्थम् || – अथ कलेरिति । भद्रं कुशलमव्याहतं न व्याहृतम् । नोपद्रुतमि- त्यर्थः । निर्वर्तितेति । निर्वर्तितः कृतः कर्तव्यस्य कार्यजातस्य शेपो येन सः । कृत- कार्य: सेवकस्त्वतीव प्रभूणां प्रिय इति भावः ॥ संपादितकार्यस्य भृत्यस्य प्रभु- दर्शनं मह्ते गुणायेत्याह – आज्ञामिति । य इत्यध्याहारः स इत्यपि । यः प्र- भ्रूणां पादाम्बुरुहं पादाम्बुजं नमस्यति स धन्यः । कीदृशः सन् । उच्चैरतिशयेन प्रमोदं प्रकृष्टानन्दं यथा स्यात्तथानुमोदितं संतोषास्पदीकृतं दर्शनं यस्य तादृशः सन् । किं कृत्वा । प्रभूणां महतीं सानन्दमाज्ञामवाप्य द्विषतां रिपूणां निपाते विनाशे कृते सति तामाज्ञां निर्वर्त्य संपाद्य सपदि तस्मिन्नेव क्षणे लब्ध: सुखप्रसादो यस्य तादृशः सन्नित्यपि योज्यम् ॥ २४ ॥ कियत्संपन्ननिति प्रश्ने उत्तरमाह- १ 'कलि : साष्टाङ्गं प्रणमति' इति पाठः । २ 'देवस्य प्रसाद' इति पाठः । ३ 'कर्तव्यशेषश्च' इति पाठः । ४ ' निपाते निर्वर्त्य' इति पाठः । ५ 'कियत्संपन्नम्' इति पाठः ।