पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः दम्भः – अथ किम् । सोऽप्यत्रैव महामोहस्याज्ञ्या वर्तते ? | नहि तेन विना मुहूर्तमप्यहं प्रभवामि । - अहंकारः – अथ तव मातापितरौ तृष्णालोभावपि कुशलौ ? । दम्भ:- तावपि राज्ञो महामोहस्याज्ञयाऽत्रैव वर्तेते । तयो- विना क्षणमपि न तिष्ठामि । आर्यमिश्रैः पुनः केन प्रयोजनेनात्र प्रसादः कृतः । ६२ - अहंकारः – वत्स, मया महामोहस्य विवेकसकाशादत्याहितं श्रुतम् । तेन तद्वृत्तान्तं प्रत्येतुमागतोऽस्मि । दम्भः—वगतमेवार्यस्य । यतो महाराजस्यापीन्द्रलोकादत्रा- गमनं श्रूयते । अस्ति च किंवदन्ती यद्देवेन वाराणसी राजधानी वस्तुं निरूपितेति । ग्रलिप्सामूलमनृतं तथापि विप्रलिप्साया दम्भकलत्रखात्तत्कुमारलव्यपदेशो- ऽनुतस्य युज्यते । अथ किमिति सर्वथानीकारे । अथ तवेत्यादि । मातापितरौ तृष्णालोभाविति । तृष्णा नाम यावदीप्सितद्रव्यप्राप्तौ सल्यामपि पुनरततो- ऽधिकद्रव्याकाङ्क्षा । लोभो नाम स्वद्रव्यापरित्यागपूर्व परद्रव्यजिवृक्षा । एवं च सत्यधिकद्रव्यकाङ्क्षारूपायाः लोभस्यार्धशरीरत्वात्पत्तीत्वव्यपदेशः । आर्यमिश्र- रिति । आर्यशब्दः श्रेष्ठवचनः । मिश्रशब्दः षड्दर्शनपारदृश्ववचनः । बहुव- चनं पूजायाम् । पुनरिति वाक्यालंकारे । केन प्रयोजनेन किंप्रयोजनमुद्दिश्यात्र प्रसादः कृतः समाहितः । अथ बिन्दुमुपक्षिपति – वत्सेत्यादि । विन्दुलक्षण- मङ्कादाव्रुक्तम्–‘अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम्' इत्यादि । अत्र दम्भाहंकारयोः संवादेन कथाविच्छेदे पुनरविच्छेदहेतुर्महामोहस्य विवेकसका- शादत्याहितं श्रुतमिति पुनः कथानुसरणरूपो बिन्दुः ॥ स्वागतमित्यादि । सुष्टु आगतं खागतम् । आर्यस्य पूज्यस्य | कर्तरि षष्टी । यत इत्यादि । महारा- नोमि । अथेत्यादिः प्रसादः कृत इत्यन्तो ग्रन्थः स्पष्टार्थः । वत्स, मयेति । अत्याहि तम् । अत्यनिष्टमित्यर्थः । तद्वृत्तान्तं महामोहसमाचारं प्रत्येतुं ज्ञातुम् । स्वागतभेव सुबागतम् । राजधानी राजानो धीयन्ते वसन्त्यस्यामिति राजधानी राजवसतिः म मापि सैव वसतिस्थलमिति निरूपिता विचारिता | तत्रैवावस्थातव्यमिति भावः । T १ 'जीवामि' इति पाठः । २ 'तावप्यत्रैव वर्तते । तयोविंना' इति पाठ: 1 'पुनरत्र' इति पाठः । ४ 'तर्हि खागतम्' इति पाठः । ५ 'वाराणसी नाम नगरी राजधानी निरूपितेति' इति पाठः ।