पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् ५७ मण्डलम् | नूनमिदं कस्यापि गृहमेधिनो गृहं भविष्यति । भवतु । युक्तमस्माकमतिपवित्रमेतद्वित्रिदिवसनिवासस्थानम् । (प्रवेशं नाटयति)। (विलोक्य च) अये, मृद्विन्दुलाञ्छितललाटभुजोदरोरः- कण्ठोष्ठपृष्ठचुबुकोरुकपोलजानुः । चूडाग्रकर्णकटिपाणिविराजमान- दर्भाङ्करः स्फुरति मूर्त इवैष दम्भः ॥ ६ ॥ भवतृपसर्पाम्येनम् । ( उपत्य) कल्याणं भवतु भवताम् । (दम्भो हुंकारेण निवारयति ।) ( प्रविशति बटुः ।) बटुः- ( ससंभ्रमम् ।) ब्रह्मन्, दूरत एव स्थीयताम् । यतः पादौ प्रक्षाल्य एतदाश्रमपदं प्रवेष्टव्यम् । - याजेषु येयजामहं करोती'त्यत्र नसमासो निषिद्धः । तथापि महाकविप्रयो- गात्सिद्धः ॥ द्वित्रिदिवसनिवासस्थानमिति । द्वौ वा त्रयो वा द्वित्राः । 'सङ्ख्ययाव्यया-' इत्यादिना बहुव्रीहिः । 'बहुव्रीहौ सङ्ख्येये' इति डच् । अत्र 'संदेहोऽन्यपदार्थे'ति पदार्थमञ्जरीकारः । द्वित्रिदिवसेषु निवासस्थानमिति समासः ॥ -मृद्विन्द्विति । एष प्राणीभूतो(?) दम्भ इति प्रान्ते भातीत्यर्थः ॥६॥ कल्याणं भवत्वित्यादि । हुंकारेण निवारयति । सर्वेषां नमस्कार्यं महानुभावं मां प्रति कथमाशीर्वाद इति कुपितवानित्यर्थः । इदमर्थमजानानो बटुः ब्रह्मन् दूरत एव स्थीयतामित्यादि कथमस्माकं कुलं परीक्षितव्यमित्यन्तं न्यस्तानि स्थापितानि कृष्णाजिनमारभ्य मुसलान्तानि यज्ञपात्राणि यस्मिंस्तत् । पुनः कीदृशः । अनवरतं निरन्तरं द्रुतस्याज्यस्य गन्धो यस्मिन्नेतादृशो यो धूमरतेन श्यामलीकृतं श्यामीकृतं गगनमण्डलं यस्मिंस्तत् । नूनमिति । अद: इदं गृहमेधिनो गृहस्थस्य । दम्भमजानन्नाह - -मृद्विन्द्विति । एष दम्भो मूर्त इव मूर्तिमानिव स्फुरति मम प्रतिभाति । कीदृशः । मृद्विन्दुभिर्मृन्निर्मितवर्तुलतिलकैर्लाञ्छितानि चि- ह्नितानि ललाटादीनि जान्वन्तानि यस्य सः । पुनः कीदृशः चूडायं शिखाग्रं त स्मिन्कर्णकटिपाणिषु च बिराजमाना दर्भाङ्कुरा यस्य सः ॥ ६ ॥ भवतूपसर्पाम्येन- १ 'नूनमदः' इति पाठ: । २ 'निवासाय' इति पाठः ।