पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ प्रबोधचन्द्रोदयम् स्फटिकमणिवद्भाखान्देवः प्रगाढमनार्यया विकृतिमनया नीतः कामप्यसंगतविक्रियः । न खलु तदुपश्लेषादस्य व्यपैति रुचिर्मनाक् प्रभवति तथाऽप्येषां पुंसो विधातुमधीरताम् ॥ २६ ॥ [प्रथमोऽङ्कः = मतिः – *अज्जउत्त, किं पुणो कारणं । जेण सा तथा उदा- रचरिदं दुव्विदग्धा पतारेदि ।

  • आर्यपुत्र, किं पुनः कारणम् । येन सा तथोदारचरितं दुर्विदग्धा

प्रतारयति । वञ्चयति एवं मायापि परपुरुषं परमात्मानं कर्तृत्वादीन्प्रदर्शयन्ती तद्वत् । तथा वञ्चयतीत्यर्थः । पश्य आलोचय । वञ्चनाप्रकारमेवाह–स्फटिकमणिव- दित्यादि । स्फटिकमणिवद्भाखान्प्रकाशमानो देवः प्रपञ्चात्मना क्रीडनशीलः ‘तदैक्षत बहु स्यां प्रजायेय' इति श्रुतेः । प्रगाढं गाढतरमनार्यया तुच्छयाऽवि- द्यया स्वभावतोऽसंगतविक्रियोऽपि सन् कामपि विकृतिं नीतः प्रापितः । एवं च विक्रियावान्पुरुषो नेत्याह – न खल्वित्यादि । उपश्लेषः उप समीपे श्लेषः संवन्धः पद्मपत्रोदकवत् । तस्मादस्य पुरुषस्य रुचिः स्वभावकान्तिर्न खल्लु व्य- पैति यद्यपि तथापि एषाऽविद्या पुंसोऽधीरतां खानुगुणस्त्रभावतां विधातुं संपा- दयितुं प्रभवति समर्था भवति । अचिन्त्यो हि मायायाः प्रभाव इति भावः । अत्र समाधानं नाम मुखसन्धेः सप्तममङ्गम् । 'स्फटिकमणिवद्भाखान्देवः' इत्य- यति । यदि न प्रत्ययसे तर्हि पश्येत्याह- पश्य पश्येति । किं पश्येत्याह–स्फ- टिकेति । अनया मायया अनार्यया श्रेष्ठयानर्थकारिण्या भास्वान्स्वयंप्रकाशो देवः परमात्मा प्रगाढमतिशयेन कामप्यनिर्वचनीयां विकृति विकारं नीतः प्रापितः 1 तर्हि सा कृतार्थैव जातेत्याह—तदुपश्लेषादिति । तदुपश्लेषात्तत्संसर्गादस्यात्मनो मनागपीषदपि रुचिः स्वस्वरूपप्रकाशो न खल्वपैति गच्छति । तत्र हेतुः । असं- गतासंभाविता विक्रिया विकारो यत्र । तत्र दृष्टान्तः स्फटिकमणिवत् | यथा स्फ- टिको जपाकुसुमसंनिधानाद्रक्तोऽपि स्वाभाविकं श्वैत्यं न जहाति तथोपाघिसंनि- थानाद्विकृतोऽपि स्वरूपान्न हीयत इत्यर्थः । यद्यप्येवं तथापि वाढमतिशयेनैषा माया अधीरतां विधातुं स्वरूपात्प्रच्यावयितुं प्रभवति प्रवर्तते ॥ २६ ॥ -[ मतिः- किंपुनः कारणं येन सा तथोदारचरितं दुर्विदग्धा प्रतारयति ] ॥ प्रयोजनं का- - १ 'प्येषा बाढं' इति पाठः । २ ' किं पुणो कालणं –पभोरदि' इति पाठः ।