पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ प्रबोधचन्द्रोदयम् [ षष्ठोऽङ्कः प्रणयकलहे कुपितासु नायिकासु वैराग्यकथाकथनादिभिरनु नयेऽनौचित्यमित्या- द्यूह्यम् । अत्र शान्तरसः पञ्चसन्धिव्यापितया पुनः पुनरनुसन्धीयमानः प्राधान्यं भजते, रसान्तरैरन्तरालवर्तिभिर्यः समावेशस्तस्य प्राधान्यं नोपहन्ति । तदौचि- व्यपरिज्ञानम् । यथोक्तं ध्वनिकृता – 'प्रसिद्धेऽपि प्रवन्धानां नानारसनिबन्धने । एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता । कार्यमेकं यथाव्याप्ति प्रबन्धस्य विधीयते । तथा रसस्यापि विधौ विविधो नैव विद्यते' इति । अस्यार्थः । मुखादि- पञ्चसन्धिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनु यो यो व्यापारः कल्प्यते, नच तत्कार्यान्तरैः संकीर्यते, नच तैः संकीर्यमाणस्य प्राधान्यमुपहीयते; तथैव रसस्याप्येकस्य प्रधानभूतस्य रसान्तरसंनिवेशे क्रियमाणे न कश्चिद्विरोधः प्रत्युत प्रत्युदीरितविवेकानामनुसन्धानवतां सचेतसां तथाविधे विषये प्रह्लादातिशयः प्रवर्तते । ततश्चाङ्गाङ्गिभावनिबन्धनं नाटकादौ कर्तव्यमेवेत्याह ध्वनिकार:- 'अविरोधी विरोधी वा रसोऽङ्गी तु रसान्तरैः। परिपोषं च नेतव्यो यथा स्यादविरो- धिता' । परिपोषो नाम आन्तरालिकानां रसानां प्रधानेन रसेन तुल्यतया वर्णनं तत्र कर्तव्य मिति । अत्र लोचनाकार:- 'परिपुष्य रसं मुख्यं समीपवर्तिन इतरे रसा- स्ततः किंचिदूनपरिपोषवन्तः कर्तव्याः' इति । अत्र तुलिका विरोधगन्ध एव नारित । अपि विच्छित्त्यन्तरमेव तदित्यभिप्रायः । अतः प्रकृतशान्तरसः पुरुषाश्रयतया वर्णितः । इतरे रौद्रादयो रसास्तद्विरुद्धा महामोहविवेकाद्याश्रयतया वर्णिता इति भिनाश्रयै रौद्रादिभिः सह शान्तस्य विरोधगन्ध एव नास्तीति सम्यक् नाटकस्य शान्तरसप्राधान्यं वर्णयितुं युज्यत एव । ननु भरते– 'शृङ्गारवीरकरुणाद्भुतहा स्यभयानकाः । बीभत्सरौद्रनामानौ नाटये चाष्ट रसाः स्मृताः' इति । अत्राह शृङ्गनाचार्यः । चकार एवकारार्थः । नाट्येऽष्टावेव रसाः न संख्यान्तरसंख्येया इति । अतश्च रसान्तरस्य निर्विकारत्वात् 'शान्तं मेनिरे रसम्' इति एवकारा- द्यावृत्त्या शान्तरसं माधुरिका वर्णयन्ति । तत्र वत्सलरसस्यैव एवकारव्यावृत्त्य- त्वात् । यथाह भोजः– 'शृङ्गारवीरकरुणाद्भुतहास्य रौद्रबीभत्सवत्सलभयानक शान्तनाम्ना | आम्नाशिषुर्दश रसान्कवयो वदन्तु शृङ्गारमेव रसनाद्रसमामनन्ति' इति । नच भोजवचनगतयोर्द्वयोरष्टसंख्यानियममप्यवच्छेद्यत्वमिति वाच्यम् । ‘शृङ्गारवीरकरुण।द्भुतहास्यभयानकाः | बीभत्सरौद्रशान्ताध रसाः पूर्वैरुदाहृताः' इति वचनादयमेव पक्षः साधीयान् । शमदमस्थायीकस्य शान्तरसस्यापि विम लान्तःकरणैः साध्यमानत्वात् । अन्यथा रामस्थायीनिरूपणं महात्मकृतमसमञ्जसं स्यादित्यभिनवगुप्तपादैरुक्तल्वात् [अतो भोजेन स्थूलदर्शिना पूर्वाचार्याणां मत- L . भिमानः, आतङ्को भयमेतान्येव पङ्कः कर्दमो यस्मिंस्तम् । कीदृशा महान्तः । तत्त्वानामुन्मेपः साक्षात्कारस्तरमादुपहतं विनाशितं तमोऽज्ञानं येषां ते । विष्णुभक्तेः