पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ प्रबोधचन्द्रोदयम् कन्येयं सहसा समं परिकरैर्मोहं ग्रसन्ती भज- त्यन्तर्धानमुपैति चैकपुरुषं श्रीमान्प्रबोधोदयः ॥ २८ ॥ [षष्ठोऽङ्कः स्फुटन्ति दलन्त्युत्कटान्यस्थीनि कीकससन्धयो यस्मिन्कर्मणि तद्यथा भवति तथा मनसः संवद्धं वक्षःस्थलं हृदयपुण्डरीकं निर्भिद्य इयं कन्या विद्यावृत्ति- ज्ञानं सहसा शीघ्रं परिकरैर्विलासैः सह मोहं ग्रसति । अन्तर्धानं व्रजतीत्यन्वयः । अयमर्थः । वृत्तिर्ज्ञानं कतकरजोन्यायेन विद्यां नाशयित्वा स्वयमपि नश्यति । तदनन्तरं श्रीमान्प्रवोधोदयश्च पुरुषमेवोपैतीत्यन्वयः । जीवन्मुक्तः प्राणान्धारय- न्नेवाविद्याविमुक्तः कथम् । अविद्ययास्ति त्रिविधः परिणामः । कर्तृकार्यकरणरूप एकः, ज्ञातृज्ञेयज्ञानरूपोऽन्यः, भोक्तृभोग्यभोगरूपोऽपरः । तस्य त्रिविधस्य निवृत्ता- वौदासीन्येनावस्थानं जीवन्मुक्तिः । अविद्यानिवृत्तौ कथं देहायनुवृत्तिरिति चेत् । मै- वम् । देहादिकं निवृत्तमेव किंतु बाधितानुगतं दग्धरशनावत् । यद्वा परप्रतीत्या देह- प्रतिभासो न स्वप्रतीला। नन्वेयं रज्जुसर्पादौ स्वप्रतीत्यैव रज्जौ सर्पभ्रमः स्खप्रतीत्यैव तन्निरासो न परप्रतीत्येति चेत् । सत्यम् । काचित्कमेतत् । मरुमरीचिकादिभ्रम- स्थलेषु सर्वेषां भ्रान्त्युत्पत्तिः समाना केषांचिन्मरुभूमिस्थले जलभ्रान्तिः, पुरुषे जलनिमग्न पुरुषत्रान्तिरुत्पद्यते तस्य तु नास्त्येव तद्वदिति । जीवन्मुक्तिः स्वानुभवैकवेद्या । मुक्तोऽहमिति प्रतीतेः । अत एव अविद्या लेशोऽप्यस्ति । तस्य लेशस्य नाशः स्वत एव विद्यासंततेर्वा । तदुक्तं संक्षेपशारीरके – 'जीवन्मु- क्तिस्तावदस्तिप्रतीतेद्वैतच्छायारक्षणायास्तु लेशः । तस्मिन्नर्थे खानुभूतिः प्रमाणं तस्यामीष्टा निर्मिता निर्वृतिश्च ॥ अविद्यासन्ततेर्लेशनाशः | तस्य विद्यालेशस्य । अत्र महाश्चर्यप्रतीतेरुपगूहनं नाम निर्वहणसन्धेरेकादशमङ्गम् । तल्लक्षणं तु- कीदृशं वक्षःस्थलम् । प्रत्यक्षं समक्षं स्फुटन्ति भिद्यन्ते उत्कटानि स्थूलान्यस्थीनि य स्मिंस्तत् । पुनः कीदृशी कन्या । उद्दामा अप्रतिहता द्युतय एव दामानि मालास्ता- भिस्तडिदिव विधुदिव दिश: प्रद्योतयन्ती प्रकाशयन्ती । पुनः कीदृशी कन्या । परिकरैः सेबकैः कामादिभिः समं सार्धं मोहं ग्रसन्ती गिलन्ती । उत्पन्नमान्ना विद्या मोहादि सर्वं विनाश्य स्वयमपि नश्यतीति भावः । च पुनरेषः श्रीमान्प्रवोधोदयो निरतिशयब्राप्रकाशक एकं पुरुषं क्षेत्रज्ञमुपेत्याविर्भवति चकारो भजत्युपैत्योः समा