पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ प्रबोधचन्द्रोदयम् [षष्ठोऽङ्कः – पुरुषः – (विवेकं प्रति) भगवन्, उक्तमप्यर्थं भगवत्या न स- म्यगवधारयामि । अवच्छिन्नस्य भिन्नस्य जरामरणधर्मिणः । मम ब्रवीति देवीयं सत्यानन्दचिदात्मताम् ॥ २६ ॥ विवेकः– पदार्थानवज्ञानाद्वाक्यार्थो नावगम्यते । आर्येणोक्तं तत्सत्यमेव । पुरुष:- तदवबोधाय भगवानुपायमाज्ञापयतु । विवेकः– अयमुच्यते- एषोऽस्मीति विविच्य नेतिपदतश्चित्तेन सार्धं कृते तत्त्वानां विलये चिदात्मनि परिज्ञाते त्वमर्थे पुनः । । नावधारयामि न निश्चिनोमि । तदेवाह – अवच्छिन्नस्येत्यादि । अवच्छि- नस्य लिङ्गदेहाद्य वच्छिन्नस्य अत एव भिन्नस्य प्रतिशरीरं भिन्नस्य जरामरण- धर्मिणः स्थूलोऽहं कृशोऽहमिति देहधर्माध्यासात् । जरामरणधर्मित्वं जरामरण- धर्मकारणत्वादीनामुपलक्षकम् । इयं देव्युपनिषत्सत्यानन्दचिदात्मतां कथयति तन्न प्रतीयत इत्यर्थः । तदुक्तम् – 'वेदान्तोक्तात्म विज्ञानविचारितमतिस्तु या । ब्रह्मण्यविद्या साधारा स्थूलसूक्ष्मात्मना स्थिता' इति ॥ २६ ॥ पदार्थानवज्ञाना- द्वाक्यार्थो नावगम्यते अतः पदार्थाज्ञानपूर्वकं वाक्यार्थज्ञानं नास्तीत्यर्थः । पुरुष इत्यारभ्य उच्यत इयन्तं सुगमम् । अयमुच्यत इति । अयमुपायः । तमुपायप्रकारं तावदाह - एषोऽस्मीति | चित्तेन सार्धमन्तःकरणेन सहितम् । संवलितमिति यावत् । अस्मीत्यहंप्रत्ययं नेतिपदतः नेतिनेतीति बहुधा चैव दृश्यते जलचन्द्रवत्' । अधिकं शास्त्रादवगन्तव्यं इह विस्तरभया द्विरमामः ॥ २५ ॥ तत्त्वमस्यादिवाक्यादपि जायमानं ज्ञानं विचारं विनानवधारणमेवेत्याह पुरुष इति । असंभावित एवार्थ इत्याह – अवच्छिन्नस्येति । इयं देव्युपनिषदवच्छि- नस्य शरीरावच्छिन्नस्य । परिच्छिन्नस्येति यावत् | भिन्नस्य भेदबुच्या गृहीतस्य जरा- मरणे धर्मों यस्य एतादृशस्य मम नित्यस्य सुखज्ञानस्वरूपतां ब्रवीति निरूपयति इदमसंभावितमिवेति लक्ष्यत इत्यर्थः ॥ २६ ॥ पदार्थानवज्ञानात्तत्त्वंपदार्थयोः सम्यग- नवबोधात् वाक्यार्थी नावगम्यत इत्युपनिषत्प्रतिपादिततत्त्वमस्य | दि महावाक्यार्थस्याख ण्डैकरसस्य जीवपराभेद स्यानिर्धारणादित्यर्थः । तदवबोधाय वाक्यार्थज्ञानाय भगवान्वि- वेक आज्ञापयतु कथयतु । एषोऽस्मीतीति । चिदात्मनि तत्पदायें निष्कृष्टेश्वर चैतन्ये त्वमर्थे त्वंपदार्थे निष्कृष्टजीवचैतन्ये परिज्ञाते सति सम्यगवबुद्धे सति । पुनरनन्तरं । । 1