पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ प्रबोधचन्द्रोदयम् [षष्ठोऽङ्कः तत्र वत्सया गीतया मां तत्रागतामालोक्य ससंभ्रमं मातर्मा- तरिति परिरभ्योपवेशितास्मि । विदितवृत्तान्तया तया चोक्तम् । अम्ब, नात्र खेदयितव्यं मनः । ये खलु त्वामप्रमाणीकृत्य यथेष्टमसुर- सत्त्वाः प्रचरिष्यन्ति तेषामीश्वर एव शास्ता । उक्तं च तेन भगवता तानधिकृत्य । तथाच गीतायाम् – 'तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजत्रमशुभानासुरीष्वेव योनिषु' इति । च - पुरुषः– (सकौतुकम्) देवि, त्वत्प्रसादाज्ज्ञातुमिच्छामि कोऽय- मीश्वरो नामेति । मातर्मातरिति संभ्रमाविरुक्तिः । उपनिषदो गीतामातृत्वं गीताया उपनिषत्प्र- सूतत्वात् । अतएव भगवद्गीतासूपनिषत्स्विति व्यवहारः । असुरसत्त्वाश्चरि- प्यन्ति । अत्रायमर्थः । अस्मत्समीपे यावदवस्थानं भवत्यास्तावत्कालमसुरेभ्यो भयं नास्ति । उपनिषदं वामप्रमाणीकृत्य चलारश्चासुरास्त्वयि चरिष्यन्ति । त्वा- मप्यप्रमाणीकृत्य चरिष्यन्तीत्यर्थः । चतुरस्तान्सुरद्विषः क्रूरनराधमानशुभसंज्ञका नासुरीषु योनिष्वेवाजस्रं क्षिपामि । एतदुक्तं भवति भगवद्गीतासु सप्तमेऽध्याये - ‘तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजसमशुभानासुरीष्वेव यो- निषु' इति, 'मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः' इत्यनेन प्रतिपादितान् द्विषतः ‘प्रभवन्त्युप्रकर्माणः क्षयाय जगतोऽहिताः' इत्यनेन प्रतिपादितानुत्र- कर्मणः क्रूरान् । 'यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः' इत्यादिप्रति- पादितान् अशुभसंज्ञकान् असुरानुलतिवेदमार्गान् एवं चतुर्विधानसुराना- सुरीष्वेव योनिषु व्याघ्रसिंहादियोनिषु क्षिपामीति गीतार्थः । अत्र प्रकृतार्थस्य खेदनिवारणद्वारा स्थिरीकरणात्कृतिर्नाम निर्वहणसन्धेर्नवममङ्गम् । तल्लक्षणं तु - ‘स्थिरीकरणमर्थस्य लव्धस्य कृतिरुच्यते' इति । कोऽयमीश्वरो नामेति । ईश्वर लन्ती स्खलन्ती नूपुरे चरणभूषणे यस्याः सा ॥ २४ ॥ तत्रेत्यादि । वत्सया गी- तया । उपनिषन्मूलत्वाद्वत्सयेत्युक्तम् । मातर्मातरिति । उक्त्वेति शेषः । मां परिर- भ्यालिङ्ग्याहृमुपवेशित।स्मीति योजना | विदितवृत्तान्तया ज्ञातसमाचारया | असुराणां दैत्यानां सत्त्ववन्मनोवत्सत्त्वं चेतो येषां ते । निर्दयहृदया इत्यर्थ: । प्रचरिष्यन्ति प्रव तिष्यन्ते । शास्ता दण्डकर्ता । कुत्रोक्तमित्याह- ह— तथाच गीतायानिति । उक्तमाह— तानिति । अहं तान्क्रूरानत एव नराधमान् तथा द्विपतो द्वेषयुक्तानशुभान्पापिष्ठान्सं- सारेष्वासुरीष्वेव योनिष्वजत्रमनवरतं क्षिपामि । तेषां कदापि संसारान्निस्तारो ना- स्तीति भावः । सकोपमित्रेत्यत्र विलोक्य वदतीति शेषः । वहिर्मुखं प्रति कथमात्मस्व- - •