पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [ षष्ठोऽङ्कः (ततः प्रविशत्युपनिषच्छान्तिश्च ।) , उपनिषत् – सखि, कथं तथा निरनुक्रोशस्य खामिनो मुख- मालोकयिष्यामि । येनाहमितरजनयोषेव सुचिरमेकाकिनी परि- व्यक्ता । २१० , शान्तिः– देवि, कथं तथाविधविपत्पतितो देव उपालभ्यते । उपनिषत् – सखि, न दृष्टा त्वया मे तादृशी दशा । येनैवं ब्रवीषि | शृणु - बाह्वोर्भग्ना दलितमणयः श्रेणयः कङ्कणानां चूडारत्नग्रह्निकृतिभिर्दूषितः केशपाशः । वन्मुक्तिनैकट्यमुक्तम् । अत्रानुभूतकथनान्निर्णयो नाम निर्वहणसन्धेश्चतुर्थमङ्गम् । तदुक्तम् 'अनुभूतार्थकथनं निर्णयः परिकीर्त्यते इति ॥ ८ ॥ ततः प्रविश तीति । निरनुक्रोशस्य निर्दयस्य । 'कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः' इत्यमरः । खामिनो मुखं कथमवलोकयिष्यामि । येनैवं ब्रवीषीति । येन का- रणेन मदीया एतादृशी दशा त्वया न दृष्टा तेन कारणेन कथं तथा विपत्पतितो देव उपालभ्यत इत्येवं ब्रवीषीत्यर्थः। स्वकीयां दुर्दशां कथयति-शृणु बाहोरिति । वाह्वोर्हृस्तयोर्दलितमणयः । दलिताः शकलीकृता मणय इन्द्रनीलादयो यासां ताः कङ्कणानां श्रेणयो भग्ना भञ्जिताः । चूडारत्नस्य शिरोमाणिक्यस्य ग्रहा ग्रहणानि त एव निकृतयस्तिरस्कारास्ताभिर्दुर्विदग्धैः केशपाशो दूषितोऽपात्रीकृतः । हतवि- धिबलात् । विधिर्दैवम् । दुष्टविधिवशादित्यर्थः । दुरितैः पूर्वजन्मसंचितैर्दूरसंस्थे विवेके पत्यौ अहं दासीकर्तुं कैः कैर्नहिता । सर्वैरीहितेत्यर्थः । बाह्वोरियनेनाङ्गद्व- यप्रतीतेर्मनननिदिध्यासनयोरङ्गयोर्मध्ये मननरूपस्याङ्गस्य कङ्कणश्रेणय उपक्रमोपसं- हारादीनि तात्पर्यलिङ्गानि प्रतीयन्ते । दलितमणय इत्यनेन तदुपरि मणिभूत- ध्यानधारणासमाधिरूपनिदिध्यासनं प्रतीयते । तदयमर्थः । पूर्वमीमांसादीनां तत इति । उपनिषत् । निरनुक्रोशस्य निर्गतोऽनुक्रोशो दया यसात् । निर्दयस्येत्यर्थः। मुखमालोकयिष्यामीत्यनेन मानिनीत्वमादर्शितम् । देवीति संबोधनेन त्वमतिसाध्व्यसि, त्वयीदमस्मिन्समयेऽनुचितमिति द्योतितम् । किंचित्कोपं परिहाय वदति सखि, न दृष्टा त्वयेति । तां दशामेव श्रावयति — ऋण्विति । बाह्वोरिति । अहं कैः कैर्दु- रितैः पापैर्दुविंदग्धैर्दुष्टबुद्धिभिर्हतं नष्टं यद्विधिवलं दैवबलं तस्मान्निर्भाग्यत्वात्सपदि तत्का- लमेव दासकर्तुं स्वाधीनां संपादयितुं नेहिता न तर्किता । अपि तु सर्वैरपीत्यर्थः । निर्भाग्यत्वे हेतु: । बिवेके दूरस्थे दूरंगते सति । दासीत्वसंपादकमाह - बाहोरिति ।