पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् २०१ शान्तिः – अथ मनसि कीदृशी स्वामिनः पुरुषस्य प्रवृत्तिः । श्रद्धा - यादृशी वध्यस्य ग्राह्यस्य भवति । शान्तिः– ताकि खाम्येव साम्राज्यमलंकरिष्यति । श्रद्धा – एवमेतत् यथात्मानमनुसंधत्ते ततो देव एव खाराट् सम्राट् च भवति । शान्तिः अथ देवस्य मायायां कीदृशोऽनुग्रहः । - - श्रद्धा – ननु निग्रह इति वक्तव्ये कथमनुग्रहः शक्यते वक्तुम् । देवोऽपि हि सर्वानर्थबीजमियं माया सर्वथा निग्राह्येति मन्यते । शान्तिः – यद्येवं का तहींदानीं राजकुलस्य स्थितिः । श्रद्धा – शृणु, नित्यानित्यविचारणाप्रणयिनी वैराग्यमेकं सुहृ- त्सन्मित्राणि यमादयः शमदमप्रायाः सहाया मताः । - - त्यादि पठतीत्यन्तं सुगमम् ॥ २ ॥ अथेति | वध्यस्य वधार्हस्य वा । तत्कि- मित्यादि । क्रिमिति प्रश्न | अथ देवस्येत्यादि कीदृशोऽनुग्रह इति सबलवाक्यतां मलाह – ननु निग्रह इति । मायायामनुग्रहलेशमात्रस्याप्यसंभवादिति भावः । देवो हीति । मायाया निग्राह्यत्वे हेतुमाह | सर्वानर्थवीजमिति । यद्येवमित्यादि । मनस्यपरागे मायायामपरागायां चेति एवंशब्दार्थः । शुण्विति । नित्या- नित्येति । नित्यानित्यविचारणा । ब्रह्मस्वरूपमेव नित्यं ततोऽतिरिक्तमनित्य- पुरुषस्य मनसि निग्रहार्थ प्रवृत्तिरित्यर्थः । वाम्येवात्मैव साम्राज्यमात्मारामत्वम- लंकरिष्यत्यङ्गीकरिष्यति । यथेति । यथा यतः आत्मानं परमात्मानमनुसंधत्ते प्रपञ्च- प्रातिकूल्येन परमात्मत्वेनावधारयति । ततो देव एव खाराट् स्वस्मिन्ना समन्ताद्रा- जत इति स्वाराट् आत्मारामः, सम्यक् चिदानन्दामेदेन राजते इति सम्राट् । ज्ञानाभिन्न इत्यर्थः । तथाच छान्दोग्ये 'स एष एवं विज्ञानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्द: स खराट् भवति' इति । अथेति । मायायां मूलाविद्यायां कीदृशः कथमनुग्रहः । न कथमपीत्यर्थः । न कथमपीत्युक्तं तदेव शङ्कते— नन्विति । सर्वानर्थंबीजं सर्वेषामनार्थानां बीजं मूलं कारणमत एव निग्राह्येत्यर्थः । स्थितिर्व्य- बस्था । मायानिग्रहे हेतुमाह–नित्यानित्येति । नित्य आत्मा अनित्यं ततोऽन्यत् एषा विचारणा प्रणयिनी प्रणयः प्रीतिर्यस्यां सा प्राणप्रिया, वैराग्यं वीतरागता एकं १. 'शमादयः' इति पाठः ।