पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतन् शमं सदा ॥ काले वर्षतु पर्जन्यः पृथ्वी राजन्वती तथा | देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥ नित्यं नैमित्तिक कर्म ब्राह्मणानां प्रवर्धताम् । इष्ट्या च नित्यं चाक्षुष्या प्रीयतां देवता इति ॥' नचेदं शुभशंसनात्मकं भरतवाक्य- मिति शङ्कनीयम् । भरताचार्यैः पञ्चमेऽध्याये नान्दीत्वेन निरूपितत्वादियं नान्दी बहुपादा च । अतो भरताचार्यैः पादानां पदत्वस्वीकारपक्षः पदनियमप- क्षच नाङ्गीकृत इति विज्ञेयम् । अभिनवगुप्तपादैः पदनियमपक्ष एवाङ्गीकृत इ- त्युक्तं प्राक् । अतोऽस्माभिरपि तन्मतानुसारिभिः पादानां वाक्यानामपि निय- मपक्षस्वीकारोऽतिकष्टतरः । पदशब्दस्य सुप्तिङन्तेनैव वृद्धव्यवहारात् न वाक्यं पदं नापि पाद: । पदमिति नान्यदेवादिमतं हेयमिति । पदनियमपक्षे फलश्रुति- रपि – 'नान्दी तु त्रिपदा ज्ञेया त्रिवर्गफलदायिनी । द्वाविंशतिपदा नान्दी भुक्ति- मुक्तिप्रदायिनी ॥' अतश्च द्वादशपदायाः सर्वसौभाग्यदायित्वं भुक्तिप्रदत्वम् । द्वाविंशतिपदाया नान्द्याः भुक्तिमुक्तिप्रदत्वम् । ननु नान्यन्ते सूत्रधारः प्रविश- तीति यदुक्तं तन संगच्छते । भरतवचनविरोधात् । यथोक्तं भरताचार्यैः- 'व्यसं वा चतुरस्रं वा शुद्धं वा मिश्रमेव वा । प्रयुज्य रङ्गानिष्क्रामेत्सूत्रधारः सहानुगः ॥ प्रविशेत्स्थापकस्त्वन्यः सूत्रधारगुणाकृतिः ॥” इति । अभिनवगुप्त- पादैरप्यङ्गमुक्तम् –‘प्रयुज्य विधिनैवं हि पूर्वरङ्गं प्रयोगतः । स्थापकः प्रविशेत्तत्र सूत्रधारस्य वेषभाक् ॥” इति । प्रयोगत इति चतुर्थ्यर्थे तसिः । प्रयोगार्थमि- यर्थः । यद्वा ल्यव्लोपे पञ्चमी । प्रयोगमवलम्व्येत्यर्थः । दशरूपके – 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविशेत्तद्वदपरः कार्यमास्थापयेन्नटः ॥' इति चेत्सत्यम् । श्रूयतां तर्हि दर्शनरहस्यम् । यदा तु सूत्रधार एव नान्दीं प्रयुक्त तदा स्थापकनामा सूत्रधारवेषधारी कश्चन प्रविशेत् । यदा नान्दीं कुशीलवाः प्रयुञ्जते तदा सूत्रधार एवं प्रविशत इति । अनेनैवाभिप्रायेणोक्तं सरस्वतीवि- लासे–‘यन्नाट्यवस्तुनः पूर्व विघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स कीर्तितः ॥' इति । 'नान्यन्ते सूत्रधारस्तु नान्द्यर्थस्थापनापरः । भारतीं वृत्तिमाश्रित्य कुर्यात्प्रस्तावनाविधिम् ॥ प्रथमं पूर्वरङ्गश्च ततः प्रस्तावनेति च । आरम्भे सर्वनाट्यानामेतत्सामान्यमिष्यते ॥' अनेन ज्ञायते 'ऋतुं कंचिदुपाश्रित्य भारतीं वृत्तिमाश्रयेत्' इति ऋतूपादानविधानमनियतं, भारतीवृत्त्युपादानं नियत- मिति । भारतीवृत्तिर्नाम- 'प्रयुक्तत्वेन भरतैर्भारतीति निगद्यते । सा वृत्तिः संस्कृ- तप्रायवाग्व्यापारो नयाश्रयः ॥ अङ्गान्यस्याश्च भरताश्चलारीति वभाषिरे ॥' इति । 'प्ररोचना मुखं चेति वीथी प्रहसने अपि ॥ प्रस्तावनोपयोगिवान्नान्द्यन्ते सा प्रयु- वेपोपचारचतुरो नानाशिल्पकलान्वितः ॥ छन्दोविधानतत्त्वज्ञः सर्वशास्त्रविचक्षणः । तत्तद्गीताद्यभिनयकलातालावधारणः ॥ अवधाय प्रयोक्ता च योक्तॄणामुपदेशकः । एवं