पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[५] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् असारे संसारे विरसपरिणामे तु विदुषां वियोगो वैराग्यं द्रढयति वितन्वन्शमसुखम् ॥ २२ ॥ (ततः प्रविशति वैराग्यम् ।) १८९ वैराग्यं – ( विचिन्त्य । ) अस्राक्षीन्नवनीलनीरदजलोपान्तातिसूक्ष्मायत- त्वयात्रान्तरितामिषं यदि वपुर्नैतत्प्रजानां पतिः । प्रत्यग्रक्षरदस्रमिश्रपिशितग्रासग्रहं गृघ्नतो गृध्वाकारत नौ निपतिताः को वा कथं वारयेत् ॥ २३ ॥ रिपरिणामे वार्धक्ये । यद्वा विरसाः परिणामा आनन्द प्रवणा विक्षेपा यस्मिन् । वियोग इष्टवियोगः शमसुखं वितन्वन्वैराग्यं द्रढयतीत्यन्वयः । उदरताडमिति । कृत्स्नमुदरं ताडयित्वोदरताडम् । 'परिक्लिश्यमाने च' इति णमुल् । परिक्लेशः सर्वतोऽपि वाधनम् ॥ २२ ॥ ततः प्रविशति वैराग्यम् । अत्र सहसैवार्थसंपत्त्या पात्रप्रवेशः ॥ – अस्राक्षीदित्यादि । नवस्य नूतननी- लनीरजस्येन्दीचरस्य दलोपान्तादतिसूक्ष्मा अतिमृदुतरा आयता दीर्घा लक् चर्म | लगेव त्वङ्मात्रम् | सुप्सुपेति समासः । तेनान्तरितामिषं अन्तरितमातृ- तमामिषं पललं यस्यैतद्वपुः प्रजापतिर्नासाक्षीन निर्मितवान् | तर्हि प्रत्यक्षर- दस्रैर्नूतनगलद्रक्तैर्मिश्रमामगन्धिपिशितमेव प्रासग्रहमशनकवलं गृह्णतः तनौ शरीरे निपतिताः । द्वितीयाबहुवचनम् | गृध्रध्वाङ्क्षकान् को वा कथं वारयेत् । पतत- ते सतीत्यर्थः । जडधियो मन्दमतयः उदरताडमुदरं संताड्यालमत्यर्थं शुचा शोकेन । अतिशयितशोकेनेत्यर्थः । भृशमत्यर्थ तप्यते । शुचा संतप्यते इति पाठ: सुगम: | तु जुनः बियोगः । पुत्रादिभिः सहेत्यर्थात् | विदुषां ज्ञानिनां शमसुखं वितन्वन् विस्तार- यन् असारे नि:सारे बिरसः कटुः परिणामः फलं यस्य तादृशे संसारे वैराग्यं द्रढयति दृढं करोति ॥ २२ ॥ अस्राक्षीदिति । प्रजानां पतिर्धाता एतद्वपुः शरीरं त्वङ्मात्रेण त्वचामात्रेणान्तरित माच्छादितमानिषं मांस यस्य एवंभूतं यदि मुनर्नास्राक्षीन्नोत्पादयेत् तदा वपुषि निपततो गृध्रान्मांसाशिनः पक्षिणः, ध्वालान्का- कान्,वृकान्वृद्धसुगालान्, शुनः कुक्कुरान् क्रौञ्चान् प्रत्यग्रं नवं क्षरद्यदसं रक्तं तेन मिक्षं मिलितं पिशितं मांसं तस्य यो ग्रासस्तस्य ग्रह आदानं यत्र यस्यां क्रियायां यथा स्यात्तथा गृप्ततः काङ्क्षतः कथं वारयेत् । न कथमपीत्यर्थः । त्वमात्राच्छादन- १ 'सूक्ष्मं पुनस्त्वयात्रा' इति पाठ: । २ 'वृकान्शुनो निपततः क्रौञ्चान्कथं' इति पाठः ।