पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[५] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् मनः – देवि, एवमेतत् । तथापि — लालितानां खजातानां हृदि संचरतां चिरम् । प्राणानामिव विच्छेदो मर्मच्छेदादरंतुदः ॥ १९ ॥ सरस्वती – वत्स, ममतावासनानिबन्धनोऽयं व्यामोहः । उक्तं च- मार्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे । न तादृङ्ममताशून्ये कलविङ्गेऽथ मूषके ॥ २० ॥ तत्सर्वानर्थबीजस्य ममत्वस्योच्छेदे यत्नः कर्तव्यः | पश्य- — १८७ शास्त्रनिषिद्धं सिन्ध्वादिनद्युत्तरणविन्ध्यशैलादिलङ्घनमोटादिवननिवासैर्दुरितं संपा- दितं तत्कष्टम् । ततोऽपि कष्टतरं दुष्टप्रभुसेवाकरणमपि निर्वर्तितमित्यर्थः ॥१८॥ देवीत्यारभ्य पश्येत्यन्तं सुगमम् ॥ लालितानामित्यादि । लालिता- नामुपलालितानां हृदि संचरतां स्वजातानामपत्यानां खस्मिञ्शरीरे जाताना- माविर्भूतानां प्राणानामिव विच्छेदः मर्मणां जीवस्थानानां छेदात्खण्डनादप्यरुंतुदो मर्मस्पृक् । ‘अरुर्द्विषत् -' इत्यादिना मुम् । दुःखकर इत्यर्थः । अत्र वत्स- ममतानिबन्धनोऽयं व्यामोह इत्यनेन प्ररोचनाख्यमङ्गं निरूपितम् । आप्तवाक्य- संदर्शनात् । लक्षणं तु – 'यदाप्तवचनाद्भाविदर्शनं सा प्ररोचना' इति ॥ १९ ॥२०॥ मषी तधुक्तानि अतएव म्लानानि शुष्काणि वक्राणि येषां ते दुरीशा दुष्टप्रभवः कष्टं यथा स्यात्तथा दृष्टाः । एवं च कामादिभ्यो विरजितव्यमिति भावः । शिष्टं स्पष्टम् ॥ १८ ॥ एवं वैराग्यहेतौ सत्यपि वैराग्यं नोत्पद्यत इत्याह – लालितानामिति । खस्मात्स्वशरीराज्जातानामुत्पन्नानां बालभावे चुम्बनालिङ्गनैललितानाम् । अतएव चिरं हृदि संचरतां विच्छेदो वियोगो मर्मच्छेदादप्यरुंतुदो व्यथातिशयकारी । तत्र दृष्टान्तः । प्राणानां विच्छेदो वियोगः स यथा मर्मच्छेदादतिपीडाकरस्तद्वदयमपी- त्यर्थः ॥ १९ ॥ वत्स ममेति । ममता मदीयत्वाभिमानः तस्य वासना सर्वकालम- नुवृत्तिः सैव निबन्धनं कारणं यस्य सः । ममतासंबन्धादेव दुःखमित्यस्मिन्नर्थे संमति- माह —मार्जारेति । मार्जारभक्षिते गृहकुक्कुटे स्वगृहपोषितकुक्कुटे यादृशं दुःखं तादृक् तादृशं कलविङ्के चटके ममताशून्ये मूषके च मार्जारभक्षिते न ममताशून्यत्वात् । तस्मान्ममतैव दुःखहेतुरिति भावः ॥ २० ॥ एवं सति ममतोच्छेदे एव यत्नः कार्य इत्याह—तत्सर्वानर्थेति । सवेंऽनर्था यस्मादसौ सर्वानर्थः स्नेहस्तस्य बीजं कारणं १ 'शिवम्' इत्यन्यतमः पाठः ।