पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[५] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् १८१ मनः— हा प्रिये, क्वासि देहि मे प्रतिवचनम् । ननु देवि, स्वप्नेऽपि देवि रमसे न विना गया त्वं खापे त्वया विरहितो मृतवद्भवामि । दृरीकृतासि विधिदुर्ललितैस्तथापि जीवंत्यवेहि मन इत्यसवो दुरन्ताः ॥ १३ ॥ ( पुनर्मूच्र्च्छति ।) संकल्पः–राजन्, समाश्वसिहि समाश्वसिहि । मनः—(समाश्वस्य ।) अलमस्माकमतः परं जीवितेन । संकल्प, चितामारचय | यावदनलप्रवेशेन शोकानलं निर्वापयामि । (ततः प्रविशति वैयासिकी सरस्वती । ) - सरस्वती – प्रेषितास्मि भगवत्या विष्णुभक्त्या । यथा 'सखि सरस्वति, गच्छापत्यव्यसनखिन्नस्य मनसः प्रबोधनाय । यथा च तस्य वैराग्योत्पत्तिर्भवति तथा यतस्वे'ति । तद्भवतु । तत्संनि- त्यर्थः । स्वप्नेऽपीत्यादि । हे देवि, स्वप्नेऽपि सर्वदा मया विना त्वं न रमसे । अपिशव्दात् जागरे किमुतेत्यर्थः । त्वया विरहितः खापे सुषुप्तौ मृतवद्भवामि । स्वप्न एव मनसः प्रवृत्त्या संगमः सुषुप्तौ नास्ति । अत उक्तं मृतवद्भवामीति वतिप्रयोगः । त्वया विना मनो जीवतीति यत् तत्रासवो दुरन्ता इत्यवेहि ॥ १३ ॥ पुनर्मूर्च्छतीसारभ्य यतस्वेयन्तं सुगमम् । अत्र मनसः प्रबोधनाय विष्णुभक्त्या प्रेषितायाः सरस्वत्यास्तथा भवत्वित्युक्ला खशक्तिप्रकटनप्रतीते- यस्याः सा | हृदयास्फोटम् । 'परिक्लिश्यमाने च' इति णमुल् | हृदयमारफोट्य वि दार्य विनष्टा | नृतेत्यर्थः । वैराग्य उत्पन्ने प्रवृत्तिर्नभविष्यतीति तात्पर्यम् । अन्यो नाट्यधर्मः । – स्वप्नेऽपीति । स्फुटं पूर्वार्धम् । हे देवि, विधेर्दैवस्य दुर्ललितैर्दुष्ट- विलसितैर्यद्यपि दूरीकृतासि दूरं नीतासि तथापि मनो जीवतीत्यलम् । असंभावनी- यमेतत् । तर्हि जीवने को हेतुस्तत्राह । हि यतोऽसवः प्राणा दुरन्ताः सहसा प्रयत्नं विना न नश्यन्ति । ‘जीवत्यवेहि मनः' इति पाठे तथापि मनो जीवति । कुतः असवो दुरन्ता अशक्या यत इति अवेहि जानीहि ॥ १३ ॥ सरस्वत्याः प्रवेशं स्तौति – ततः प्रविशतीति । सखि सरस्वतीति संबोधनेन यथा विष्णुभक्तिस्तथा वैयासिकी सरस्वतीतिं सूचितम् । यतस्व प्रयत्नवती भव । विदितपूर्वैव पूर्व विदिता ज्ञाता वि दितपूर्वा । भावानामित्यत्रोत्पत्तिमतामिति शेषः । तथा च पदार्था ध्वंसवन्तः, उत्प- १ 'जीवत्यतो हि' इति पाठ:.