पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[५]] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् अथ मनसः को वृत्तान्तः । श्रद्धा – देवि, तेनापि पुत्रपौत्रादिव्यसनजनितशोकावेशेन जीवोत्सर्गाय व्यवसितम् । १७९ विष्णुभक्तिः– (स्मितं कृत्वा ।) यद्येवं स्यात्सर्व एव वयं कृत- कृत्या भवामः । पुरुषश्च परां निर्वृतिमापत्स्येत । किंतु कुतस्तस्य दुरात्मनो जीवत्यागः । MEN श्रद्धा — एवं देव्यां प्रबोधोदयाय गृहीतसंकल्पायामचिरं शरी- रेण सह नै भविष्यति । विष्णुभक्तिः–तद्भवतु | अस्य वैराग्योत्पत्तये वैयासिक सर खतीं प्रेषयामः । ( इति निष्क्रान्तौ । ) प्रवेशकः । (ततः प्रविशति मनः संकल्पश्च । ) मनः – (सास्रम् ।) हा पुत्रकाः, क गताः स्थ । दत्त मे प्रियद- र्शनम् | भो भोः कुमारकाः रागद्वेषमदमात्सर्यादयः, परिष्वजध्वं चोक्तम् ‘गुरूपदेशकीर्तनं प्रसङ्गः' इति ॥ ११ ॥ अथ मनस इति । जीवि- तोत्सर्गाय प्रायोपवेशाय व्यवसितमुद्युक्तम् । भावे निष्ठा । स्मितं कृत्वेति । अभिमतमचिरेणैव भविष्यति । अभिमतं वाञ्छितं मनोविलयात्मकं किंचिद्वि- लम्बेनेत्यर्थः । प्रवेशक इति । तल्लक्षणमुक्तं प्राक् । अत्र प्रवेशकेन पात्र- सूचनात्पात्रप्रवेशः । ततः प्रविशति मनः संकल्पच । दत्त प्रयच्छत । भो भो इत्यादि । राग इच्छाविशेषः । आदिशब्देन कामादयः । प्रलापो- त्परिहारे यत्नवता भाव्यमिति भावः ॥ ११ ॥ वैराग्यवतो मनसः प्रवेशमाह - अथ मनस इति । पुत्रपौत्रादिमरणजनितशोकस्यावेश: प्रवेशो यस्मिन् तेन मनसा जीवोत्सगीय प्राणत्यागाय व्यवसितं निर्णयः कृतः । स्मितं हास्यम् । यद्येवं स्यान्त्रियेत । विषयनिर्मुक्तं स्यादित्यर्थः । कृतकृत्याः संपन्नप्रयोजनाः । पुरुषो जीवः परां निर्वृतिं प- रमानन्दम्। दुरात्मनो दुष्टस्वभावस्य–देव्यामुपनिषद्रूपायाम् । शरीरेण लिङ्गशरीरेण सह न भविष्यति विरक्तं भविष्यति । प्रवेशमुपसंहरति – तद्भवत्विति । निष्क्रान्ते विष्णु भक्तिश्रद्धे । संकल्पो मनोव्यापारः । दत्त प्रयच्छत । प्रियमिष्टं दर्शनम् । 'प्रतिवचनम्' १ 'मापद्येत' इति पाठः । २ 'न भविष्यति' इति पाठः ।