पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् ( नान्द्यन्ते सूत्रधारः ।) - व्याजस्तेन व्यक्तीकृतमिव । स्वभावतोऽचाक्षुषं चाक्षुषीकृतमिति च्विप्रत्ययार्थः । तत्कीदृशं तदाह – जगद्व्यापीति | जगत्पिण्डाण्डब्रह्माण्डरूपं तयाप्नोतीति । च- न्द्रार्धमौले: चन्द्रस्यार्धश्चन्द्रार्धः चन्द्रार्धयुक्तो मौलिर्यस्येति मध्यमपदलोपी स- मासः । नतु सप्तम्या समासः । तस्य मौले: प्रहरणादिपुंनियमात् चन्द्रार्धमौले- रन्तर्ज्योतिरिति भेदोपचाराद्ब्रह्मण आनन्दमितिवत् । चन्द्रार्धमौलिरूपं ज्यो- तिरित्यर्थः । काव्यार्थसूचकत्वं नान्दीश्लोकस्याङ्गीकुर्वन्ति केचित् । 'काव्यार्थसू- चकैर्वर्णैर्नान्दीश्लोकः प्रशस्यते' इति । प्रतापरुद्वीचेऽप्युक्तम् – 'अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम्' इति । अत्र नान्दीद्वये शब्दतः षष्टाङ्कार्थः सूचितः । अर्थतोऽपि मध्याहार्केत्यादिप्रथमार्थेन महामोहस्तत्सेना च सूचिता । तृतीयपादेन विवेकरतत्सेना च सूचिता । चतुर्थपादेनोभयोः सेनाविलयानन्तरं स्वरूपावस्थानं निर्वहणसंधिप्रतिपाद्यं सूचितम् ॥ २ ॥ नान्द्यन्ते इति । सूत्रं नामासूचितं नाटकवस्तुजातं कृत्स्नमुच्यते । तस्या पञ्चमादा सप्तमात्प्रतीक्षां धारयतीति सूत्र- धारः । नान्दी नाम नाट्यादौ विघ्ननिबर्हणार्थं पठ्यमाना पदनिबन्धनियता तदनियता वा । तदन्ते सूत्रधारः । प्रविशतीति शेषः । सा च नान्दी पूर्व- रङ्गस्याङ्गम् । पूर्वरङ्गो नाम नाट्यवस्तुनः पूर्वमादावुपक्षेपको रङ्गो रञ्जकः । नाट्यव स्तूपोद्धात इति यावत् | यथोक्तमभिनवगुप्तपादैः– 'यदुपक्षेपकं वस्तु नाट्यादौ रङ्ग उच्यते । स एव पूर्वरङ्गः स्यादुपोद्धातं प्रचक्षते ॥' इति । अयमर्थः । शास्त्रेषु यद्वस्तूपोद्धात इत्युच्यते तदेव नाट्येषु पूर्वरङ्गशब्देनोच्यत इति । तदुक्तं सर- स्वती विलासे – 'यन्नाट्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स कीर्तितः ॥” इति । तस्याङ्गानि द्वाविंशतिसंख्याकानि तेषां मध्येमध्ये प्रत्याहारमार्जनादीनि तौर्यत्रिकाश्रितत्वात्काव्यादावप्रसक्तानि | नान्दी तु पद्य- रूपतया काव्यादौ निबन्धनीया । यथोक्तमभिनवगुप्तपादैः– 'प्रत्याहारादेक विंशतेरङ्गकलापस्यात्रानुपयुक्तिः' इति । अनेनैवाभिप्रायेणोक्तं वसन्तराजीये- 'यद्यप्यानि भूयांसि पूर्वरङ्गस्य नाटके | तेषामवश्यकर्तव्या नान्दी नन्दीश्वर- । १] - - उत्प्रेक्षते । कीदृशमिव ज्योतिः । स्पष्टं प्रकटं ललाटसंबन्धि लालाई नेत्रं तृतीयचक्षु. स्तयाजेन तन्मिषेणाव्यक्तं व्यक्तं संपन्नं तथाभूतं व्यक्तीकृतं प्रकटीकृतमिव । पुनः कीदृशम् । जगब्यापि जगद्व्याप्नोति विपयीकरोति तत् । श्रीमद्भगवचक्षुष्युत्प्रे- क्षातीव समीचीनेति हृदयम् । अनेनाद्यपद्यद्वयेन वेदान्तसिद्धान्तरहस्थं प्रकटयता कृष्णमिश्रेणाभिनेयं निरणायि ॥ २ ॥ – नान्यभिनयेन कथा प्रस्तावयति- नान्द्यन्ते सूत्रधार इति । नान्दी नाटकादौ पद्यादिरूपा | सूत्रधारो नाटकाचार्यः ।