पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् बलतरकर्णतालास्फालनोच्छलत्समदकरिकुम्भसिन्दूरसन्ध्यायमानदश- दिशि प्रलयजलधरध्वानभीषणे तेषामस्माकं संनद्धे सैन्यसागरे महाराजमहामोहस्य महाराजेन नैयायिकदर्शनं दौत्येन प्रहितम् । गत्वा च तेनोक्तो महामोहः । विष्णोरायतनान्यपारय सरितां कूलान्यरण्यस्थलीः . पुण्यः पुण्यकृतां मनांसि च भवान्म्लेच्छांन्त्रजेत्सानुजः । प्रलयजलधरध्वानभीषणे तद्वद्भयंकरे । तेषां शत्रूणामस्माकं च सैन्यसागरयोः संनद्धयोः सतोरित्यर्थः । प्रलयजलधरध्वानभीषण इत्यनेन महाभयप्रतीते रुद्वे- गाख्यं गर्भसन्धेरङ्गम् । तल्लक्षणम् – 'भीतिरुद्वेगोऽरिनृपादिजा' इति । नैयायि- कदर्शनमिति । अयमर्थः । नैयायिकोऽन्यथाख्यातिवादी दूतः सन्नेवमाह - 'अरे महामोह, विवेकमहाराजस्थेचमाज्ञा । म्लेच्छादिहृदयानि भवदीयनिवा- सार्हाणि दत्तानि तत्रैव वस्तव्यम् । विवेकसार्वभौमे विजृम्भमाणे सति सत्पुरुष- चित्तेषु भवतोऽवकाशो नास्ति । शुक्तिकायां रजतस्यैव । एतादृशं दूतवचनम न्यथाख्यातिवादिन एव' इति नैयायिकदर्शनस्य दौत्यमुक्तम् । अनेन सामदानोक्ति- कथनेन संग्रहाख्यं गर्भसन्धेरङ्गं निरूपितम् | तलक्षणं तु – 'संग्रहः सामदा- नोक्तिः' इति । अतःपरं दूताख्य उपसन्धिः प्रस्तुतः । तदुक्तं नाटकचिन्ता- मणौ – 'प्रश्नो दूतश्च लेख्यं च नेपथ्योक्तिस्तथैव च । आकाशभाषणं चेति विज्ञेयाः पञ्च सन्धयः ॥' इति । गत्वा च तेनेति । विष्णोरिति । व किंचिदुत्सृष्टस्त्यक्तः पाटलिमा येतरक्तिमा येन तस्मिन् । च पुनः । तेषां महामोहपक्ष वर्तमानानामस्माकं विवेकपक्षीयाणां सैन्यसागरे सैन्यसमुद्रे संनद्धे संनाहयुक्ते सति । महाराजेन विवेकेन । महाराजमहामोहस्येति कर्मणि पष्ठी । तं प्रति नैयायिक- दर्शनं दौत्येन दूतस्य कर्म दौत्यं तेन प्रहितं प्रेषितमिति संवन्धः । कीदृशे सैन्यसा- गरे । विजयघोषेण विजयशब्देनाहूयमाना अनेके बहवो वराः श्रेष्ठा वीरा योद्धारस्तेषां बहलो यः सिंहनादस्तेन बधिरिता बधिराः संपादिता दिशामन्ता येन तस्मिन् । पुनः कीदृशे । सततं निरन्तरं रथाश्च तुरगखुराश्च तैः खण्डितं चूर्णितं यद्भूमण्डलं तस्मादुच्छलदूर्ध्वं पतद्यद्विपुलं रजःपटलं धूलिसमूहस्तेनान्तरित आच्छादितः किरण- माली तरणियेंन तस्मिन् । पुनः कीदृशे । प्रबलतरं यत्कर्णतालास्फालनं तेनोच्छलघं- तकरिकुम्भसिन्दूरं तेन संध्यायमानाः संध्यातुल्या दश दिशो येन तस्मिन् । पुनः कीदृशे । प्रलयकालीना जलधरास्तेषामिव ध्वानः शब्दस्तेन भीषणे भयानके । दूतेन कथमुक्तस्तदाह – विष्णोरिति । हे महामोहेत्यध्याहारः । भवान् १ 'भवेत्सानुजः' इति पाठः । १६९