पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [पञ्चमोऽङ्कः येन तथा कुलप्रकृतिष्वपि भ्रातृषु कामक्रोधादिषु कथाशेषतां गतेषु । निकृन्ततीव मर्माणि देहं शोषयतीव मे । दहतीवान्तरात्मानं क्रूरः शोकाग्निरुत्थितः ॥ ३ ॥ (विचिन्त्य ।) आदिष्टास्मि देव्या विष्णुभक्त्या । बत्से श्रद्धे, अहमत्र हिंसाप्रायसमरदर्शनपराङ्मुखी । तेन वाराणसीमुत्सृज्य शालिग्रामाभिधाने भगवतः क्षेत्रे कंचित्कालमतिपालयामि । त्वं तु यथावृत्तमागत्य मे निवेदयिष्यसीति । तदहं देव्याः सकाशं गत्वा सर्वमेतत्समरवृत्तान्तमा वेदयामि । ( परिक्रम्यावलोक्य च ।) ए- । ‘जातस्य हि ध्रुवो मृत्युः' इति । शीर्यत्तृणलघुषु जरद्धासानतुल्येषु का कथा क्रिमु वक्तव्यम् । जन्तूनां परिच्छिन्नायुः परिमाणवत्त्वादिति भावः । विवेकं ग्रोन्मनातीति विवेकप्रोन्माथी | विवेके विद्यमानेऽपि शोकदहनो न शाम्यति किं कुर्म इति तात्पर्यम् ॥ २ ॥ येनेत्यादि । कुलप्रकृतिषु कुलस्य मूलभूतेषु । संप्रदायप्रवर्तकेविति यावत् । निकृन्ततीवेति । अत्रोत्प्रेक्षालंकारः । लोक- मान तिङ् (?) तेनेति नियमात् । अतः संभावनैव प्रतीयताम् । आदिष्टास्मी- त्यारम्य संदेहमारोपयतीत्यन्तं सुगमम् ॥ णिजन्ताद्रुहेः ‘रुहः पोऽन्यतरस्याम्' इति - त्यर्थः । तथाप्येवं विवेके जातेऽप्युच्चैरतिशयेन कोऽप्यनिर्वाच्यो बिपमोऽसह्यो विवेकं प्रकर्षणोन्मध्नाति नाशयति तादृशो बन्धूनां व्यसनेन निधनेन जनितः शोक एव दहनोऽग्निर्हृदयं चेतो दहति ॥ २ ॥ कामादिवधस्य नाट्ये प्रत्यक्षतः कर्तुमशक्यत्वा- च्छ्रद्धामुखेन तं सूचयति । कथा वार्ता सैव शेषोऽवशिष्टो भागस्तस्य भावस्तत्ता तां गतेषु प्राप्तेषु । मृतेष्वित्यर्थः ॥ – निकृन्ततीति । ऋरोऽसह्यः शोकाशि: उदूवी: शिखा यस्य उदरपूरकत्वादुच्छिखो मे मम मर्माणि निकृन्ततीव छिनत्तीव । देहं शोष- यतीवान्तरात्मानं मनो दहतीव ॥ ३ ॥ – कामादिवधं पूर्वसूचितं प्रकटयितुं विष्णु- भक्तेः प्रवेशं सूचयति—आदिष्टेत्यादि । विष्णुभक्तिर्नाम जडानृताहंकारादिरहिता ज्ञानसत्यानन्दाद्याकारा प्रत्यक्चेतोवृत्तिः । हिंसाप्रायः वधप्रधानो यः समरः संग्रा- मस्तदर्शनेन परामुख्युदासीना | शालग्रामाभिधाने चक्रतीर्थे भगवतो विष्णोः क्षेत्रेऽतिपाल्याम्यतिक्रमामि | यथावृत्तम् । येन प्रकारेण जातं वृत्तान्तमिति शेषः । १ ' तथा क्रूर' इति पाठः | २ 'कथावशेषतां' इति पाठः । ३ 'शोकाग्निरु- च्छिखः' इति पाठः ।