पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ प्रबोधचन्द्रोदयम् राजा – (सहर्षम् ।) अरे, एष देवः पुराविद्भिः क्षेत्रस्यात्मेति गीयते । [चतुर्थोऽङ्कः अत्र देहं समुत्सृज्य पुण्यभाजो विशन्ति यम् ॥ ३० ॥ सूतः— आयुष्मन्, पश्य पश्य । एते तावत्कामक्रोधलोभादयो- ऽस्मद्दर्शनमात्रादितो देशाहूरमतिक्रामन्ति । राजा — एवमेतत् । तद्भवतु । स्वाभीष्टसिद्धये भगवन्तं नमस्यामः । (रथादवतीर्य प्रविश्यावलोक्य च । ) जय जय भगवन् अमरचयचक्रचूडामैणिश्रेणिनीराजितोपान्तपादद्वयाम्भोज राजन्न- एष इत्यादि । एष आदिकेशवः पुराविद्भिर्व्यासादिभिः क्षेत्रस्य काशीक्षेत्र- स्यात्मा आत्मभूतः । क्षेत्रशब्देन देहस्थानविषययोरभेदाध्यवसायादात्मेति वक्तुं युज्यते । अत्र केशवायतने पुण्यभाजो योगिनो देहं समुत्सृज्य यं केशवं वि- शन्ति । काशीखण्डे पूर्वभागे एकतमाध्याये – 'आदौ पादोदके तीर्थे विद्धि नामादिकेशवम् | अग्निविन्दोर्महाप्राज्ञ भक्तानां मुक्तिदायकम् ॥ अविमुक्तेऽमृ तक्षेत्रे येऽर्चयन्त्यादिकेशवम् । तेऽमृतलं भजन्त्येव सर्वदुःखविवर्जिताः ॥' इति । तादात्म्यतामापन्ना भवन्ति । विश्वनाथकेशवयोरैक्यात् केशवैक्यमा- पन्ना विश्वेश्वरैक्यमापन्ना इति तात्पर्यार्थः । क्षेत्रस्यात्मेत्यनेन केशवस्य सर्वान्त- र्यामित्वमुक्तम् ॥ ३० ॥— आयुष्मन् पश्येति व्याख्यातं प्राक् । इतःपरं महामोहविजयद्वारा प्रबोधोदयार्थं श्रीविष्णुं प्रस्तुवन् विष्णुभक्त्या सहावल - म्वते - जयजयेत्यादिना । मोहच्छिदं बोधोदयं देहि । देव तुभ्यं नम इत्य- आयतनवाञ्जत इत्यर्थः । एप देव इति । एष देवः द्योतनाद्देवः परमात्मा पुरा विद्भिः क्षेत्रविद्भिः क्षेत्रमहिमज्ञैर्व्यासादिभिः क्षेत्रस्यात्मा क्षेत्राभिमानिनी देवतेति गीयत उच्यते । पुण्यमीश्वरं भजन्ति सेवन्ते ते पुण्यभाज: शिवभक्ता आदिकेशव- संनिधौ देहं समुत्सृज्य यं विशन्ति प्रविशन्ति । प्राप्नुवन्तीत्यर्थः ॥ ३० ॥ एत इति । अनेन विवेकासक्तिमात्रेण कामादीनां पराभवो दर्शित॒ः । रथादवतीर्येत्यनेन शरीरेन्द्रियेष्वौदासीन्यं सूचितम् । बोधोत्पत्तिरूपस्वाभीष्टसिद्धये भगवन्तमादिकेशवं स्तौति — अमरचयेत्यादिना । भगवान्षगुणैश्वर्यसंपन्न: । 'उत्पत्ति चविनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥' जयतु सर्वोत्क र्येण वर्तताम् । अमरचयेति सर्वाणि संबुद्ध्यन्तानि | अमराणां देवानां चयः समूहस्तस्य चमूचक्रं सेनामण्डलं तस्य चूडामणिश्रेणिभिर्मुकुटमणिपतिभिराजितमुपान्ते समीपे १ 'अये' इति पाठ: । २ 'चूडामणिनीराजित' इति पाठः ।