पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० प्रबोधचन्द्रोदयम् [ चतुर्थोऽङ्कः एताश्च प्रतिमुकुलं लग्नमधुपावलीरणितमुखरा जृम्भाभर विग- लन्मकरन्दबिन्दुदुर्दिनाः कुसुमसुरभयो नातिदूरे श्यामायमांनघनच्छ- दच्छायातरवो नगरपर्यन्तोद्यानभूमयः । यत्रैते मरुतोऽपि गृहीतपा- शुपतत्रता धूलिमुद्धूलयन्तस्तापसा इव लक्ष्यन्ते । तथाहि — तोयार्द्राः सुरसरितः सिताः परागै- रर्चन्तयुतकुसुमैरिवेन्दुमौलिम् । प्रोद्गीतां मधुपरुतैः स्तुतिं पठन्तो नृत्यन्ति प्रचललताभुजैः समीराः ॥ २८ ॥ - रति । लक्ष्मीमिव लक्ष्मीमिति प्रतिविम्वाक्षेपात्तदङ्गतो निदर्शनालंकारः ॥ २७ ॥ एताश्चेति । जृम्भाभरोऽत्यन्तविकासस्तेन विगलन्मकरन्दबिन्दुभिर्दुर्दिना दु- दिनायमानाइछायातरवो नमेरुवृक्षास्तेषाम् । शिष्टं स्पष्टम् ॥ - तोयार्द्रा इति । सुरसरितो भागीरथ्यास्तोयार्द्राः । स्नाता इत्यर्थः । परागैः सिता भस्मोद्धूलिता इति गम्यते । च्युतकुसुमैः पुष्पोपहारैरिति यावत् । इन्दुमौलिं काशीपतिम- र्चन्तः पूजयन्तः । भौवादिकोऽयमर्चतिः । प्रोद्गीतां प्रकर्षेणोद्गीतां गाथारूपां षामन्तर्मध्ये विलसन्ती चमत्कारमाविष्कुर्वती या तडिद्विथुलता तस्या लेखा रेखा तस्या लक्ष्मी शोभां वितरति विस्तारयति । सौवमेघयोस्तडित्पताकयोश्चोपमानोपमेय- भाव: ॥ २७ ॥ एताश्चेति । एता नगरस्य वाराणसीनान्नः पर्यन्तेषूद्यानभूमय उपवनप्रदेशा नातिदूरेऽतिनिकटे । दृश्यन्ते इत्यध्याहारः । कीदृश्य उद्यानभूमयः । मुकुलं मुकुलं प्रतीति प्रतिमुकुलं प्रतिकोशं लग्ना ये मधुपास्तेषामावलिः पङ्किरतस्या रणितेन शब्दितेन मुखरा वाचाला जृम्भो विकासस्तस्यारम्भ उत्पत्तिस्तस्या भरो- ऽतिशयः अर्थात्कुसुमानां विकासातिशयस्तस्माद्विगलन्नि: सरन्यो मकरन्दः पुष्परसस्तेन दुर्दिनं यासु ताः । वृष्टिमय इत्यर्थः । पुनः कीदृश्य: । कुसुमैः सुरभयः सुपरिमलाः श्यामायमाना नीलवर्णा घनच्छाया निबिडच्छायास्तरवो यासु ताः । मरुतो वायवः, गृहीतं पाशुपतव्रतं यैस्ते सर्वदा धूलिमुद्धूलयन्तः । प्रचण्डा इति भावः । तदेव दर्श- यति — तथा हि । तोयार्द्रा इति । समीरा वायवः प्रकर्षेण चलाञ्चञ्चला लतास्ता एव भुजास्तैर्नृत्यन्ति, नृत्यं कुर्वन्ति । तापसाः पाशुपता अप्येवं नृत्यतीन्ति भावः । कीदृशा वायवस्तापसाश्च । सुरसरितो गङ्गायास्तोयेनार्द्राः कृतजाह्नवीमजनाः । पुनः परागैः कुसुमरजोभिः सिता युक्ता वायवः । 'पिज् बन्धने' इत्यस्य सिता इति रूपम् । परागैर्विभूतिरजोभिः सिता धवलास्तापसाश्युतकुसुमैः स्वयमेव पतितैः पुष्पैरिन्दुमौलिं - १ 'जृम्भारम्भभर' इति पाठः । २ ' ३यामायमाना नवधन' इति पाठः ।