पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् १५३ (आकाशे) अरे मूर्ख, लुब्ध, दुरुच्छेदः खल्वयं भवतो व्यामोहः । तथाहि- समारम्भा भग्नाः कति कति न वारांस्तव पशो पिपासोस्तुच्छेऽस्मिन्द्रविणमृगतृष्णार्णवजले । तथापि प्रत्याशा विरमति न ते मूढ शतधा विदीर्ण यच्चेतो नियतमशनिग्रावघटितम् ॥ २० ॥ इदं च ते लोभान्धस्य चेष्टितं चेतसि चमत्कारमातनोति । यतः — लभ्यं लब्धमिदं च लभ्यमधिकं तन्मूललभ्यं ततो लब्धं चापरमित्यनारतमहो लब्धं धनं ध्यायसि । धनिनां द्वारि तदपि तथापि । किमर्थमित्यर्थः । संतापं सहन्ते । किमर्थं संता- पमनुभवन्तीत्यर्थः ॥ १९ ॥ तापस्योच्छेदेन नाशेन उत्सवः । समारम्भा इति । अस्मिन्परिदृश्यमाने तुच्छेऽस्थिरे द्रविणमृगतृष्णार्णवजले द्रविणमेव मृगतृष्णार्णवजलं यस्मिंस्तत्प्राये । आशापरम्पराजनक इत्यर्थः । तथापि एवं च सति प्रत्याशा दुर्भावनापरम्परा न विरमति न शाम्यति । ते तव चेतोऽपि शतधा न विदीर्णम् । यचेतः अशनिग्रावघटितं वज्रशिलानिर्मितं दृढम् ॥ २० ॥ इदं चेति । लभ्यं धनं ध्यायसीयन्वयः । केन प्रकारेणेति तदाह - लभ्य - मित्यादि । आदौ तावत्रभ्यं प्रातुमर्ह भूरिद्रविणादि लब्धम्, इदं चाधिकं । - शय्या स्वेच्छालभ्या | अर्थवशाद्विभक्तिव्यत्यासः । एवं यद्यपि पदार्थप्राप्तिसौलभ्यमस्ति तदपि तथापि कृपणा दीना धनिनां द्वारि संतापदु:खं सहन्तेऽनुभवन्तीति मह दाश्चर्यम् । अमुमर्थ श्रीमद्भागवते श्रीशुक आविश्वकार 'चीराणि किं पृथि न सन्ति' इत्यादिना ॥ १९ ॥ पुनरपि लुब्धं तिरस्करोति – अरे मूर्खेति । भवतो लो- भासक्तस्य ।। –समारम्भा इति । हे पशो विवेकविधुर, तव कति कियत्संख्याकाः समारम्भा उपक्रमाः कतिवारान्न भग्ना न नष्टाः । अपि तु भन्ना एव । पशुत्वमेव विशदयति । कीदृशस्य तव । अमिंस्तुच्छेऽतिक्षुद्रे द्रविणरूपं धनरूपं यन्मृगतृष्णा मरीचिका तदेवार्णवजलं सागरजलं यस्तादृशे संवादलेशशून्येऽपि जले पिपासोः पातुमिच्छोः । किंच हे मूढ, समारम्भनाशेऽपि ते तव प्रत्याशा प्रचुरेच्छाद्यापि न विरमति नोपरमते । एवं विमर्श क्रियमाणे इति प्रतिभातीत्याह । यच्चेतोऽन्तः :क- रणमद्यापि शतधा न विदीर्ण न स्फुटितं, तच्चेतो नियतं निश्चयेनाशनिग्रावभि- र्वज्रोपलैर्घटितम् । निर्मितमित्यर्थः ॥ २० ॥ चमत्कारमाश्चर्यम् ॥ लभ्यमिति । मुग्ध: १ 'मुग्धो धनं' इति पाठः ।