पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ प्रबोधचन्द्रोदयम् ध्यायन्निमां सुखिनि दुःखिनि चानुकम्पां पुण्यक्रियासु मुदितां कुमतावुपेक्षाम् । एवं प्रसादमुपयाति हि रागलोभ- द्वेषादिदोषकलुषोऽप्ययमन्तरात्मा ॥ ५ ॥ तदेवं चतस्रोऽपि भगिन्यो वयं तदभ्युदयकारणेनैव वासरान्न- यामः । कुत्रेदानीं प्रियसखी महाराजमालोकयति । श्रद्धा – देव्या एतदेवमुक्तम् । अस्ति राढाभिधानो जनपदः । तत्र भागीरथीपरिसरालंकारभूते चक्रतीर्थे मीमांसानुगतया मत्या कथंचिद्धार्यमाणप्राणो व्याकुलेनान्तररात्मना विवेक उपनिषद्देव्याः संगमार्थं तपस्तपस्यतीति । पत्त्यर्थम् । चतसृणां भगिनींनां महानुभावहृदये निवासस्य फलमाह — ध्याय- नित्यादि । अन्तरात्मा जीवः । इमामिति । इमां मैत्रीमित्यर्थः । अनुकम्पां दयाम् । मुदितां मुदम् । मुदपुण्यक्रियाशब्दाः क्रियावत्युपचारात्प्रयुज्यन्ते । उपेक्षामौदासीन्यं ध्यायन्भावयन् । कुर्वन्निति यावत् । प्रसादमुपयातीत्यर्थः । अयमर्थः । अन्तरात्मा रागद्वेषलोभादिकळुषोऽपि चतसृभित्र्यादिभिर्युक्तः सन् तकरजोमिश्रितजलवत्प्रसन्नो भवतीत्यर्थः । एतदुक्तं भवति । उपेक्षया कुमति- संसर्गनिरासात् रागादयः परास्ताः । पुण्यवत्सु सज्जनेषु मुदितासंबन्धात्संगतिव- शान्मोहनिरासः । दुःख्रिनि चानुकम्पया क्रोधादिनिरासः । सुखिनि मैत्र्या द्वेषा- दिनिरासः। मैत्र्यादिभिश्चित्तवर्मैरन्तःकरणे निर्मलीकृते सति तत्संचलित आत्मा नि मेलो भवतीत्यर्थः ॥५॥ तदेवमित्यारभ्य तपस्यतीत्यन्तं सुगमम् | तपस्यति तपश्च- त्युक्तं तदाह । तथाहि — ध्यायन्तीति । ते महात्मानः सुखिनि जीवे मां मैत्रीं ध्यायन्ति चिन्तयन्ति । दुःखिनि चानुकम्पां कृपां ध्यायन्ति । पुण्यक्रियेषु मुदितां संतुष्टतां ध्यायन्ति कुमतौ कुबुद्धावुपेक्षामुदासीनतां ध्यायन्ति । एवं संपादिते तेषां किं कार्य सिद्धगत आह । एवं सत्ययमन्तरात्मा प्रसादं प्रसन्नत्वमुपयाति । ननु खरसनिर्मलस्य की- दृशी प्रसन्नता नामेत्याशङ्ख्याह — रागेति । रागलोभद्वेषादिदोषैः कलुषः । स्वभाव- तस्तु निर्मल इति भावः ॥ ५ ॥ तदेवमित्याद्यालोकयतीत्यन्तं सुबोधम् | प्रियसख्यु - पनिषत् । महाराजं विवेकम् । राढा इत्यभिधानं नाम यस्य तादृशो जनपदो देशः । परिसरो निकटप्रदेशः । मीमांसानुगता भाट्टमतानुरोधिनी बुद्धिर्व्याकुलेनान्तरात्मना । - [चतुर्थोऽङ्कः १ 'ध्यायन्ति मां' इति पाठः । २ 'पुण्यक्रियेषु' इति पाठः | ३ 'तदभ्युदय व्यापारेणैव' इति पाठः ।