पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ प्रबोधचन्द्रोदयम् [चतुर्थोऽङ्कः - मैत्री - * दिद्विआ मए दिट्ठा कुद्धसाहूलमुहादो विन्भट्टा मिईव क्खेमेण संजीविदा पिअसही । - श्रद्धा — ततो देव्या समुपजाताभिनिवेशमुक्तमेवर्मेस दुरा- त्मनो महामोहहतकरय मामप्यवज्ञाय प्रवर्तमानस्य समूलमुन्मूलनं करिष्यामीति । आदिष्टा चाहं देव्या । यथा गच्छ श्रद्धे, ब्रूहि वि- वेकम् । कामक्रोधादीनां निर्जयायोद्योगः क्रियताम् । ततो वैराग्यं

  • दिष्टया मया दृष्टा क्रुद्धशार्दूलमुखाद्विभ्रष्टा मृगीव क्षेमेण संजीविता

प्रियसखी । व्यलोकि दृष्टा सा भैरवी यथा येन प्रकारेण वज्रपातहतशैलशिला वज्रायुधख- ण्डितपर्वतखण्डमिव व्याभुग्नजर्जरतरास्थि । क्रियाविशेषणमेतत् । भुवि पपात । ततः परमित्यारभ्य पपातेत्यनेन विष्णुभक्तेरुत्कर्ष प्रतिपादनादुदाहरणाख्यं चतु- र्थमङ्गम् । तल्लक्षणमुक्तम् – 'उत्कर्षेणान्वितं वाक्यमुदाहरणमिष्यते' इति ॥ ४ ॥ दिष्टया दैववशात् । तत इति । समुपजाताभिनिवेशं अभिनिवेशः समुपजात - स्तदानीमेवोत्पन्न इत्यर्थः । अभिनिवेश आग्रहः । क्रियाविशेषणमेतत् । एवम येत्यारभ्य क्रियतामियन्तेन महामोहवधूरूपचिन्त्यमानार्थसंप्राप्तेः प्रतिपादना- क्रमाख्यं पञ्चममङ्गम् । लक्षणं तु 'चिन्त्यमानार्थसंप्राप्तिः क्रम इत्यभिधीयते' । अत्रैव प्रधानकथानुरोधेन गर्भसंधेरङ्गमभूताहरणमप्युक्तम् । एवमस्य दुरात्मनो ढोऽति कठिनो यः कोपस्तेन कुटिलं यथास्यात्तथा तेन प्रकारेण व्यलोक्यवलोकि- तम् । तथा कथन् । यथा येन प्रकारेण सा भैरवी भूमौ विशेषेण आ समन्ताद्भसं जर्जरं विशीर्ण शिरोऽस्थि शिरःकपालं यस्यां क्रियायां यथास्यात्तथा पपात । केव । वज्रपातेन विद्युत्पातेन हता पतिता शैलस्य पर्वतस्य शिलेव ॥ ४ ॥ [ मैत्री – दिष्टया मृगीव शार्दूलमुखाद्विभ्रष्टा क्षेमेण संजीविता प्रियसखी 1] शार्दू- लमुखाद्व्याघ्रमुखात् । ‘शार्दूलद्वीपिनौ व्याघे' इत्यमरः । देव्या विष्णुभक्त्या समुप जात उत्पन्नोऽभिनिवेशोऽमिमानो यत्र यस्यां क्रियायां यथा स्यात्तथा एवमुक्तम् । एवं कथं तत्राह – महाराजस्येत्यादि । दुरात्मन: पापिष्ठस्य महामोहहतकस्य महामोहप्रेतस्य । अवज्ञाय तिरस्कृत्य | उन्मूलनमुत्पाटनम् । आदिष्टेति । आज्ञप्तेत्यर्थः । देव्या विष्णुभक्त्या | किं विवेकं प्रति वक्तव्यमित्याह—–——कामक्रोधादीनामिति । ततो वै- राग्यमिति । तेषु कामादिषु जितेषु वैराग्यमुत्पद्यते । अहं च यथासमयं यथोद्दिष्टकार्ल १‘दिहिंआ मिइव्व सद्दूलमुहादो विन्भट्टा क्खेमेण संजीविदा' इति पाठः । २ 'मेवं महाराजस्य दुरात्मनो– वर्तमानस्य सेनामनुग्रहीष्यामि' इति पाठः ।