पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ प्रबोधचन्द्रोदयम् भिक्षुः – अथ धर्मस्य कामादपक्रान्तस्य कुत्र प्रवृत्तिः । - क्षपणकः– (पुनर्गणयिला) [तृतीयोऽङ्कः

  • णत्थि जले णत्थि वणे, णत्थि गिलिगव्हलेसु णत्थि पाआले ।

विण्णुभत्तीए सहिदो, वसदि हिअए, महम्माणम् ॥ २५ ॥ " कापालिकः (सविषादम्) अहो महत्कष्टमापतितं महारा- जस्य । तथाहि- मूलं देवी सिद्धये विष्णुभक्ति- स्तां च श्रद्धानुव्रता सत्वकन्या ।

  • नास्ति जले नास्ति वने नास्ति गिरिगहरेषु नास्ति पाताले ।

स विष्णुभक्त्या सहितो, निवसति हृदये महात्मनाम् ॥ अतिसुगमम् । अहो महत्कष्टमित्यादि । अत्र पर्युपासनं नाम प्रतिमुखसंधे- र्नवममङ्गम् । श्रद्धाक्षेपप्रतिपादकवाक्येन सान्त्वनात् । तलक्षणम् 'सांत्वनं पर्यु - पासनम्' । धर्मस्य कामादपक्रान्तस्य कुत्र वृत्तिरित्यनेन श्रद्धास्थितिज्ञानानन्तरं तदीयस्य धर्मस्य कुत्र वृत्तिरिति विशेषवचनात्पुष्पं नाम प्रतिमुखसंधेर्दशममङ्गम् । ‘पुष्पं विशेषवद्वाक्यम्' इति लक्षणात् । नास्ति जले इति । इति निष्कामिकी ध्रुवा ॥ २५ ॥ अहो महत्कष्टमित्यारभ्य विवेकसाध्यमित्यन्तेन निष्ठुरवचनेन वज्रं नाम प्रतिमुखसंधेरेकादशमङ्गम् । तल्लक्षणं तु 'वज्रं प्रत्यक्षनिष्ठुरम् | तावदसुव्ययेनापि स्वामिनः प्रयोजनमनुष्ठेयम् । तन्महाभैरवीं विद्यां धर्मश्रद्धयोराहरणाय प्रस्थाप याम इति उपपत्तिमद्वाक्योपन्यासादुपन्यासाख्यं प्रतिमुखसंधेद्वदशमङ्गम् । ल- क्षणं तु – 'उपपत्तियुतं वाक्यमुपन्यासं प्रचक्षते । इति निष्क्रान्ताः पापण्डाः | आवामप्येवं हताशानां व्यवसायं देव्यै विष्णुभक्त्यै निवेदयाव इत्यत्र 'वर्ण्यस्य कथायां वर्णसंहृतिः' इत्यभिनवगुप्तपादैरुक्तम् । प्रधानकथानुसारेणैवास्माभिस्तु बहुपात्रादीनामङ्गयोजना कृता । दशरूपके तु' चातुर्वर्ण्यसमाहारो वर्णसंहार इष्यते इत्युक्तम् । नान्यभूपतिप्रभृतिभिस्तु 'बहुपात्रसमावेशो वर्णसंहार उच्यते' इत्यु- वर्तिनी श्रद्धेति ।] [करुणा – दिष्ट्या भाग्येनेत्यर्थः । सहर्षं नाटयति हर्षयुक्तं नाट्यं प्रकाशयति । पत्थि जले इति पूर्वोदाहृतां गाथां पठति ॥ २५॥ मूलमिति । विष्णुभ- क्तिर्देवी । सिद्धये बोधोत्पत्तये मूलं प्रथमं कारणं सत्त्वकन्या श्रद्धा सात्त्विकी श्रद्धा | १ 'कापालिक:-

- कुत्र वृत्तिः' इति पाठः ।