पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् (भिक्षुः क्षपणकाय चषकमुपनयति ।) क्षपणक: – (पीला)* अहो, सुराए महुलत्तणम्, अहो सादो, अहो गन्धो, अहो सुलहित्तणम् । चिलंखु अलिहन्ताणुसासणे णि- वैडिदे पडिवञ्चिदोसि ईदिसेण सुलालसेण । अले भिक्खुअ, घो- लन्ति मं अङ्गाइं । ता सुविस्सम् । ३] १२३ भिक्षुः – एवं कुर्वः । (तथा कुरुतः।) कापालिकः– प्रिये, अमूल्यकीतं दासद्वयं लब्धम् । तन्नृत्या- चस्तावत् । (उभौ नृत्यतः । ) - क्षपणकः- – + अले भिक्खुअ, ऐसो कावालिओ अहवा आ चालिओ कावालिनीए सद्धं सोहणं णच्चेदि । ता एदाए सद्धं अह्मेवि णच्चावः ।

  • अहो सुराया मधुरत्वम्, अहो खादः, अहो गन्धः, अहो सुर-

भित्वम् । चिरं खलु अर्हदनुशासने निपतितः प्रतिवश्चितोऽस्मीदृशेन सुरारसेन | अरे भिक्षो, घूर्णन्ति ममाङ्गानि । तर्हि खप्स्यामि । ● अरे भिक्षुक, एष कापालिकोऽथवाचार्यः कापालिन्या सार्धं शोभनं नृत्यति । तस्मादेताभ्यां सार्धमावामपि नृत्यावः । नीमः प्रतीमः । 'स्पृहेरीप्सितः' इति संप्रदानत्वाचतुर्थी ॥ २१ ॥ अहो सुरभि- त्वम् । अत्र माधुर्यस्खादयोरेकार्थत्वेऽपि रसावेशाद्विरुक्तिः । एवं गन्धसुरभि- त्वयोः । यद्वा मधुरत्वं माधुर्य गन्धादिनिष्टम् । खादो गुडमरिचादि षड्डिधद्रव्य- निष्ठः कश्चन रुचिविशेषः । गन्धः सहजवासना । सुरभित्वमागन्तुकवासना । उभौ तथा करुतः । नूतनसुरापानसमायातमूर्च्छाजातावियर्थः । उभौ नृत्यत वक्त्रासवेनाननमद्येन सुरभि सुगन्धाम् ॥ २१ ॥ [क्षप - अरे भिक्षो, मा सर्वं पिब । कापालिनीवदनसरसां मदिरां ममापि धारयस्व |] वदनसरसां वदनोच्छिष्टाम् । मुख- रसयुक्तामित्यर्थः। चषकं पानपात्रम् । [क्षप – अहो सुराया मधुरत्वम्, अहो खादः, अहो गन्धः, अहो सुरमित्वम् । चिरं खलु अर्हदनुशासने पतितः प्रतिवञ्चितोऽस्मीदृशेन सुरारसेन । अरे भिक्षुक, घूर्णन्ति ममाङ्गानि । तत्स्वप्स्यामि।] अहो इत्याश्चर्ये । रसान्त- रासदृशत्वमित्यर्थः । [क्षप- अरे भिक्षुक, एप कापालिक : अथवा आचार्य: कापालिन्या १ 'इदिदो पडिवंचिदहि — घोणंदि मं अङ्गाणि' इति पाठ: । २ ' एसे कावालि ए - इति पाठः ।