पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ प्रबोध चन्द्रोदयम् नरास्थिमालांकृतचारुभूषणः स्मशानवासी नृकपालभोजनः । पश्यामि योगोञ्जन शुद्धचक्षुषा । तृतीयोऽङ्कः जगन्मिथो भिन्नमभिन्नमीश्वरात् ॥ १२ ॥ - क्षपणकः–

  • को एसो कावालिअन्वदं पुलिसो धालेदि । ता णं

वि पुच्छिस्सम् । (उपसल) अलेले कावालिअ, णलात्थिमुण्ड- मालाधारिअ, कीलिसो तुझ धम्मो, किलिसो तुझ मोक्खो । ७

  • क एप कापालिकं

व्रतं पुरुषो धारयति । तदेनमपि पृच्छामि । अरेरे कपालिक, नरास्थिमुण्डमालाधारक, कीदृशस्तव धर्मः कीदृशस्तव मोक्षः । कार्यसिद्धिर्लोके दृष्टेति नात्र कार्यानुमानमवतरति । तत्र स्त्रीसंभोगादिव्यति- रेकेण सुखान्तरं नास्ति । सदाशिवप्रसाद महिना तादृशमुखस्य दुःखानभिभूत- त्वान्नित्यमुखत्वमिति सोमसिद्धान्तरहस्यम् । कापालिकदीक्षादीक्षितानामेव शि- वातसाक्षात्कारो नान्येषाम् । तद्दीक्षावशादेव आत्मनोऽपि शिवाद्वैत साक्षा- त्कारः संपन्न इति प्रकटीकरोति–नरास्थिमालेति । नरास्थिमालया कृतं चारु भूषणं येन सः । स्मशाने वसतीति स्मशानवासी । नृकपाले भोजनं यस्य स नृकपालभोजनः । ‘सप्तमीविशेषणे बहुत्रीहो' इति ज्ञापकात्सप्तमीव्यधिक- रणबहुव्रीहिः । ‘अवर्थ्यो बहुव्रीहिर्व्याधिकरणो जन्माद्युत्तरपदः' - सूत्रम् । जन्मादेराकृतिगणत्वात्प्रायिकाभिप्रायाद्वा नेयम् । यद्वा समानाधि- करणसमासः । भुज्यतेऽत्रेति भोजनं भोजनपात्रम् | ‘करणाधिकरणयोश्च’ इत्यधिकरणे ल्युट् । नृकपाले भोजनं यस्य सः नृकपालभोजनः । एवंविधका- [करुणा–एवं भवतु ।] नरास्थिमालेति । अहं जगत् पश्यामि । कीदृशं जगत् । मिथोऽन्योन्यं भिन्नं पुनरीश्वरादभिन्नं यथा मुद्रिकाकङ्कणादेः परस्परभेदेऽपि सुवर्णाद- भिन्नता तथेत्यर्थः । कीदृशोऽहम् । नरास्थिमालया महाशङ्खाक्षमालया कृतं संपादितं । भूरि भूषणं येन सः । इमशाने काश्यां वसति तच्छीलः । नृकपाले भोजनं यस्य सः । योग एवाअनं तेन शुद्धमभ्रान्तं दर्शनं ज्ञानं यस्य सः । एतेन स्वीयव्रतधारणं दर्शि- तम् ॥ १२ ॥ [क्षप - अरे, एप पुरुषः कापालिकवतं धारयति तदेनमपि पृच्छामि । अरेरे कापालिक, नरास्थिमुण्डधारक, कीदृशस्तव धर्मः कीदृशस्तव मोक्षः।] उपसृत्य समीपं १ ‘कृतभूरि' इति पाठः । २ ‘योगाअनशुद्धदर्शनो' इति पाठः । ३ ‘अले, एसो पुलिसो कावालिअव्वदं धालेदि |– रात्थिमुण्डधालअ, केलिसे तुझ धम्मे, केलिसे तुझ मोक्खे' इति पाठः । -