पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् भिक्षुः – (सोधम्) आः पाप, पिशाच मलपङ्कधर, कस्तवाहं दासः । - क्षपणकः – अले विहालदासीभुअङ्ग दुवैपलिवज्जिअ, दि- वृंदो एसो मए दंसिदो । ता पिअं दे विस्सद्धं भणामि । बुद्धाणु- सासणं पलिहलिअ अलिहन्ताणुसासणं जेव्व अनुसलिअ दिअं- बलमदं जेव्व धालेदु भवम् । भिक्षुः – आः पाप, स्वयं नष्टः परानपि नाशयितुमिच्छसि । - खाराज्यं प्राज्यमुत्सृज्य लोके निन्द्यामनीन्दितः । अभिवाञ्छति को नाम भवानीव पिशाचताम् ॥ १० ॥ अपिच, अर्हतामपि धर्मवेदनं कः श्रद्दधाति ।

  • अरे विहारदासीभुजङ्ग दुष्टपरिव्राजक, दृष्टान्त एष मया दर्शितः ।

तत् प्रियं ते विस्रब्धं भणामि । बुद्धानुशासनं परिहृत्यार्हतानुशासनमे- वानुसृत्य दिगम्बरगतमेव धारयतु भवान् । भिक्षुरित्यादि । सोधम् । क्रियाविशेषणमेतत् । अत्र प्रमाणोपन्यासे कर्तव्ये गालिप्रदानस्यानुचितत्वात्कोधोदय इति भावः । अरे विहारदासीभुजङ्ग दुष्ट- परिव्राजक दृष्टान्त एष मया दर्शितः । अत्र मद्वचनं गालिप्रदानं न भवति अपि तु प्रतिबन्धितर्कस्य विपर्यये पर्यवसानप्रदर्शनपरम् । तथा चायमर्थः । यथा त्वं मे दास इति वचनमप्रमाणम् । एवं बुद्धः सर्वज्ञ इति तदीयागमोऽप्य- [क्षप – अरे बिहारदासीभुजङ्ग दुष्टप्रव्रजित, दृष्टान्त एप मया दर्शितः । तत् प्रियं ते विस्रब्धं भणानि । बुद्धानुशासनं परिहृत्याईदनुशासनमनुसरन् दिगम्बरव्रतमेव धारयतु भवान् |] विहारदासीभुजङ्ग वेश्याभर्तः । विस्रब्धं सविधासम् । स्वाराज्य- मिति । को नाम अनिन्दितः सन् । लोकैरिति शेषः । प्राज्यं प्रकृष्टं धातुमूलचि- न्तालाभवुद्धिपरमार्थचन्द्रसूर्यग्रहणसंवादभोगादिना दशविधेन सर्वशत्वप्रकर्षस्तद्वि- शिष्टं स्वाराज्यं स्वातन्त्र्यमुत्सृज्य त्यक्त्वा भवानिव लोकनिन्द्यां शास्त्रविरुद्धां पिशा- चतां पिशाचत्वमभिवाञ्छमिलपति । न कोऽपीत्यर्थः ॥ १० ॥ आईतमतमनु- पादेयमित्याह — आर्हतमपीति । आर्हतमपि धर्मवेदनं धर्मज्ञानं कः अद्धत्ते कः स्वी- १ ‘दुट्ठप्पव्वजिद, दिट्ठे दे मए एसे दंसिदे – अलिहन्तानुसासणं अणुसलन्ते दिअं- बलव्वदं जेव्व धालेद् भवं' इति पाठः ।