पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् करुणा — *सहि, पेक्ख पेक्ख । जो एसो गलन्तमलेपिच्छिल- बीहत्सदुप्पेक्खदेहच्छवी सिहण्डपिच्छिआहत्थो उल्हुंचिअचिउरमुक्कवसणदुद्दसणो सिहि- इदो जेव्व अहिवं॑हृदि । शान्तिः – सखि, नायं राक्षसः । निर्वीर्यः खल्वयम् । - करुणा — ता को एसो भविस्सदि । - शान्तिः – सखि, पिशाच इति शङ्के । - करुणा — सहि, - पप्फुरन्तमहामऊहमालोमा सिअमुअणन्तरे जलदि प्पचण्डमात्तण्डमण्डले केहं पिसाआणं अवआसो । शान्तिः— तर्हि अनन्तरमेव नरकविवरादुत्तीर्णः कोऽपि नारकी

  • सखि, पश्य पश्य । य एष गलन्मलपिच्छिलबीभत्सदुःप्रेक्ष्यदे-

हच्छविः उल्लुञ्चितचिकुरमुक्तवसनदुर्दर्शनः उल्लश्चित चिकुरमुक्ताबस नदुर्दर्शन: शिखिशिखण्डपिच्छिकाहस्त इत एवाभिवर्तते । + तार्ह क एष भविष्यति । + सखि, प्रस्फुरन्महामयूखमालोद्भासितमुवनान्तरे ज्वलति प्रचण्डमार्त- ण्डमण्डले कथं पिशाचानामवकाशः | ॥ ४ ॥ राक्षस इत्यारभ्य दिगम्बरसिद्धान्त इत्यन्तेन प्रतिमुखसन्धेः प्रगमनं नाम सप्तममङ्गम् । तल्लक्षणं तु – 'यथोत्तरं कृतां वाचं प्राहुः प्रगमनं बुधाः' इति ॥ राक्षसः |] करुणा — सखि, प्रेक्षस्व प्रेक्षस्व, य एष गलन्मलपकपिच्छिलवीभत्सदुः- प्रेक्षदेहच्छविरुहुञ्चितचिकुरमुक्तवसनदुर्दर्शन: शिखिशिखण्डपिच्छिकाहस्त इत एवाभिवर्तते ।] गलन्मलपङ्कः स्रवद्विष्ठाकर्दमस्तेन पिच्छिला मसृणा वीभत्सा भवानका दुःप्रेक्ष्या द्रष्टुमशक्या देहच्छवि: शरीरकान्तिर्यस्य । उहुञ्चिता उत्पाटिताश्चिकुराः केशा येन । मुक्तवसनो दिगम्बरः | करुणा - तत् क एष भविष्यति ।] निर्वीय न- पुंसकः । करुणा—सखि, प्रस्फुरन्महामयूखमालोद्भासितभुवनान्तरे ज्वलति प्रच- ण्डमार्तण्डमण्डले कथं पिशाचानामवकाशः ] प्ररफुरन्तो दीप्यमाना ये मयूखाः किरणास्तेषां मालागिः परम्पराभिरुद्भासितं प्रकाशितं यद्भुवनान्तरालं भुवनमध्य- प्रदेशस्तस्मिन्मार्तण्डमण्डले सूर्यमण्डले । तर्ह्यनन्तरमेव । इदानीमेवेत्यर्थः । नरक- १ 'मलपङ्कपिच्छिल — अविट्ट इति पाठः । २ 'कथं' इति पाठः ।