पृष्ठम्:प्रपन्नपारिजातः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

12

सदाचार्यमहोदयाः-तमिमं श्रीमद्विशिष्टाद्वैतसिद्धान्तं, न केवलं पठनपाठनक्रमेण, नैवाऽऽचरणप्रचारणसरण्या, नापि गम्भीरोपन्यासामृताभिवर्षणप्रणाल्या, न चापि युक्तिप्रयुक्तिप्रयोगकोटिक्रमप्रवृत्तवादगोष्ठीप्रवर्तनप्रक्रियया, अपि तु, नैकविधानां सहृदयमर्मस्पर्शिनां मृदुमधुरगम्भीरसन्दर्भाणां श्रीमदुभयवेदान्तसम्प्रदायग्रन्थानां अवतरणेन सर्वत्र सर्वतोमुखं व्यवस्थापयामासुः ।

 एभिरारचितादिव्यप्रबन्धाः –
 (१) तत्त्वसार: (२) प्रपन्नपारिजातः (३) प्रमेयमाला (४) आह्निकचूडामणिः (५) आराधनक्रम: (६) प्रमेयसारः (७) मङ्गलाशासनम् (८) ज्ञानसारः (९) जयन्तीदर्पणम् ( ०) हेतिराजसप्तकम् (११) रह्स्यसंग्रह्: (१२) चतुर्लक्षणसंप्रहृ: (१३) द्रमिडोपनिषत्संग्रहः (१४) श्रीभाष्यसंग्रहः (१५) परतत्त्वनिर्णयः (१६) परत्वादिपञ्चकम् (१७) प्रातःस्मरणीय-अर्चिरादिश्लोकद्वयम् --- इत्यादिका अनेके विराजन्ते ।

 एषु ग्रन्थेषु सर्वेषु अद्यन्तनिबद्धैः श्लोकैः एतेषां चारित्रकांशा अनेके स्फुटं विज्ञायन्ते ।

 किं च एतत्कुलीनै: “ धटिकाशतं अम्माळ् " इति प्रसिद्धैः, एतत्पुत्रसन्ततौ पञ्चमैर्वरदाचार्यैः, एतद्विषये सुप्रभातस्तोत्रे विरचितं किञ्चिद्विलसति ; तेन च बहुविधा एतच्चरित्नांशा विज्ञायन्ते । यथा –

त्वत्सन्निधेर्धुरि यतीश्वरभाष्यटीका-
मादायतिष्ठति सुदर्शनभट्टसूरिः ।
रामानुजोऽपि च तदर्थविवेचनाय
भक्त्यैव ते वरददेशिक ! सुप्रभातम् ॥
क्षीरप्रदानसमये जननी कथं मे
प्रीतीयुतो वरदराडुदगूहयद्यम् ।
यस्य क्षितौ भवति विश्रुतमाह्वयं तत् ।
’अम्मे'ति ते वरददेशिक ! सुप्रभातम् ॥ इत्यादिभिः श्लोकै: ।