सामग्री पर जाएँ

पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
प्रपञ्चसारे

मेषादिकं यच्च चतुष्कमादौ
 मासेषु तद्वायुगृहावृतं स्यात् ।
सिंहादिकं भूगृहसंवृतं च
 चापादिकं पार्थिवयुग्मवीतम् ॥ ३ ॥

मेषादिकेषु त्रिगुणात्मकानि
 चराणि भास्वद्गुणितात्मकानि ।
स्थिराण्यतो षड्गुणितानि तज्ज्ञै-
 रुक्तानि यन्त्राण्युभयात्मकानि ॥ ४ ॥

तानि त्रिषड्द्वादशकात्मकोक्तैः
 स्युर्ल्र्क्षणैरप्यभिलक्षितानि ।
स्वैः स्वैश्च नामप्रविभक्तरूप-
 भेदैर्बहिर्वेष्टितबिम्बकानि ॥ ५ ॥

त्रिगुणितमपि यन्त्रमष्टपता-
 वृतमथ षड्गुणितं हि घड्दलाभ्याम् ।
स्थिरगतमपि चाष्टयुग्मपत्रं
 तदपि च षड्युगपत्रशोभितं वा ॥ ६ ॥


1, षड्गुणितद्विषब्दलाभ्याम्.