पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८६ ) प्रतीयते, ततश्च षष्टितन्त्रेति नवीनं नाम प्रसिद्ध मभवत् । कपिलप्रवचन एते पदार्थाः संपिण्डितरूपेणासन्निति विज्ञायते । धर्मध्वजजनक-कालिकोऽयं पञ्चशिखः, अत इक्ष्वाकुवंशीयस्यास्य राशः स्थितिकालो यदि निश्चितो भवेत् तर्हि पञ्चशिखस्य कालोऽपि विज्ञातो भवेदिति । या च भाषाशैली पञ्चशिखस्य दृश्यते ततोऽपि प्रतीयते–प्रचलितेभ्यः सर्वेभ्यो दर्शनशास्त्रेभ्यः प्राचीनतमः खलु पाञ्चशिखः सूत्रग्रन्थ इति । दार्शनिक-पारि- भाषिकशब्दनिर्माणात् प्राकू तेन ग्रन्थो व्यरचि | २|६ भाष्य आकारशील- • विद्यादिशब्दास्तेन विशुद्धयाद्यर्थे प्रयुक्ताः, तत इदं विज्ञायते । न खलु दार्शनि- प्रस्थानेषु क्वचिदप्याकारशीलादयः शब्दा एष्वर्थेषु प्रयुक्ताः । इदमनुमीयते यत् सांख्यकारिकायाः सांख्यसूत्रस्य च मूलं पञ्चशिखकृतं षष्टितन्त्रमेव । यद्येवं स्यात्, तर्हि सांख्यकारिकासांख्यसूत्रगता मूलभूता विषया एतद्ग्रन्थे बीजरूपेणासन्निति स्वीकरणीयम् । पञ्चशिखकृतो ग्रन्थो नेदानीं प्रचलति, अतस्तस्य स्वरूपं न कृत्स्नतो विज्ञायते । अस्माकं धन्यतया बहूनि पञ्चशिखवाक्यानि लभ्यन्ते व्यासभाष्या- दिषु ग्रन्थेषूद्धृतानि । एभ्य इदं प्रतीयते यदयं ग्रन्थः सूत्रमयः श्लोकमयश्चा- सीदिति । योगभाष्यस्य च ग्रन्थोऽयमुपजीव्यभूत इति व्यक्तमेव प्रतीयते । युक्तिवलेन गुण-पुरुष-संयोगादीनां तत्त्वं तत्र विवृतमासीदित्यपि विज्ञायते । सूक्ष्मप्रमेयोलब्धिसाधनान्यनुमानविचारो मैत्र्यादिभावनाः, अहिंसादिसाधना- न्यपि तत्र कथितानि । पञ्च शिखवचनानि बहुषु ग्रन्थेषूद्धृतानि । ते च-गौडपादकृत- सांख्यकारिकाटीका ( १७ का० ), माठरवृत्तिः ( १७ का० ), ललितासहस्र- नामभाष्यम् ( पृ० १०५), योगवार्तिकम्, सांख्यसूत्र- विज्ञानभिक्षुभाष्यम्, युक्तिदीपिका च । इदं प्रतीयते यत् 'तथा चोक्तम्' इत्येतादृशेवंचनैर्यानि वचनानि सांख्यग्रन्थेषूद्धृतानि तेष्वपि कानिचन वचनानि पाञ्चशिखी- यानीति' । वार्षगण्यः– ३।५३ योगभाष्ये वार्षंगण्यस्यैकं वचनमुदधृतम् ( मूर्ति- व्यवधीत्यादि) । ४।१३ भाष्ये ‘गुणानाम्' इत्यादिकः श्लोकाऽपि वार्षगण्य- कृत इति तत्त्ववैशारदी - भामती ( २|१|३) पर्यालोचनतो ज्ञायते । महाभाष्य- १. उद्धरणविषये समस्याश्च बहवो दृश्यन्ते । समासतो विचारितोऽयं विषयो हिन्दीभाषायां मया ( द्र० 'कल्पना' अगस्त १६५६ अङ्क)