पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७३ ) चार्यः । यद्यपि व्याख्यानविषये योगपदार्थविषये चास्य न महती अन्तर्दृष्टि- रवलोक्यते, तथापि स्मृति-पुराण-वचनैः सांख्ययोगमतपरिपोषणमनेन सुष्टु कृतमिति दृश्यते । ग्रन्थोऽयं सांख्यभाष्याद् अनन्तरं रचित इति २।२० वार्त्तिक- दर्शनादनुमीयते । वार्त्तिकात् प्राग् ब्रह्ममीमांसाभाष्यं प्रणीतमिति वार्तिक- ग्रन्थतः ( २।२२, ३५५ ) प्रतीयते । अस्य समयः खलु ईसवीयषोडशशतकमध्यभाग इति केचन कथयन्ति । श्री उदयवीरशास्त्रिवर्यस्तु पुष्कलाभिर्युक्तिभिरस्य कालः खीष्टीय चतुर्दशशतकम- ध्यभाग इति निर्धारितवान् | इदमेव समीचीनं मतमित्यास्माकीना दृष्टिः । विज्ञानभिक्षुणा इमे ग्रन्थाः प्रणीताः - १ योगवार्तिकम्; ३-सांख्यषड- ध्यायीभाष्यम्; ३- ब्रह्मसूत्रविज्ञानामृतभाष्यम्; ४ - सांख्य सारसंग्रहः; ५-योग- सारसंग्रहः; ६-उपदेशरत्नमाला - विज्ञानामृतभाष्ये ( पृ० ६२ ) उक्ता, नोपलभ्यते; ७-गीताभाष्यम्, नोपलभ्यते । → योगवार्त्तिकं खलु बहुधा प्रकाशितम् । यद्यपि ग्रन्थकारः क्वचिद् वाचस्पति- मतं चिखण्डयिषति ( द्र० १११६, १/२१ ) तथापि वाचस्पतिव्याख्यानमिव नास्य व्याख्यानं तर्कन्यायपेशलमिति प्रेक्षावतां निर्णयः । स च सम्यक् । व्याख्याप्रसंगे बहुत्र संप्रदायान्तराणां वचांसि मतानि चापि संकलितानि ग्रन्थकृता । अत्र कानिचन खलु प्रदर्श्यन्ते-नास्तिकः - २ | १५ ; वैनाशिक- मतम्-१।३२, १४३, ४१६; क्षणिकवादः - १ | ३२; आधुनिकमतम् ( प्रायेण नव्यवेदान्तिमतम् ); १ । २५, ४/२१, ३३५, २।१६, २(१३), केचित् - १/२४; कश्चित् - २ । २५, ३।५२; विज्ञानवादः - ४२३, ४ । १५, ४।१४; न्यायवैशेषिक- दर्शनम् - ४।२१, ३१३, २१२०, २१५; वेदान्तमतम् ( प्रायेणाधुनिकवेदान्त- मतम् ) - ४ । १६; दृष्टिसृष्टिवादः-४|१४; अनिर्वचनीयतावादः - ३।१३; वेदान्ति- ब्रुवः - ३।३५, ३१३, २।२२, २।१६; योगशास्त्र विशेषः ३।३०; योगशास्त्रा- न्तरम् – ३।२६, ३२८; तन्त्रान्तरम् - ३।२७, ३।४ ब्रह्मविवर्ततावादी- ३।१५, ब्रह्माद्वैतवादः - ३ । १४ । दुरुक्तचिन्ताकरत्वं वात्तिकत्वम्' इति मतं यद्यभ्युपेयते, तर्हि नेदं वात्तिकमपि तु टीकैवेयं व्याख्येति । भिक्षुशब्दो नामाङ्गभूतः, नायं ग्रन्थकारो बौद्ध इति । १ - द्र० कीथकृतः The Samkhya System ग्रन्थः, पु० ११४ । २-- सां० द० इ०, १० ३०२-३०४।