पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३-१।४४ माध्ये 'महदूद्वस्तु' स्थले क्वचिद् 'महावस्तु' - शब्दो दृश्यते । पूर्वीपरसाहचर्यादत्र 'महद्भस्तु' इत्येव साधुः पाठ इति गम्यते, यतो हि महद्- रूपं वस्त्वत्राभिप्रेतं, न पुनम॑हत्त्वयुक्तं वस्तु । ४ – २।३ भाष्ये स्यन्दमानस्थले स्पन्दमान इति पठ्यते क्वचित् ग्रन्थ- स्वारस्यात् स्यन्दमान-पाठ एव स्थापितः । ५ - २।२७ भाष्ये शिखरतटेति पठ्यते शिखरकूटस्थले । अत्र शिखरकूट एव साधीयान् पाठः । ६–३।१५ भाष्य-श्लोके धर्मस्थले कर्मेति पठ्यते क्वचित् । तन्न सम्यक् ; न खलु कर्म दर्शनवर्जितो धर्मो भवितुमर्हति, कर्मसत्ता प्रत्यक्षेणैव गम्यते, धर्मः पुनरनुमानेन प्रापितवस्तुसद्भाव इति । १७–३।२६ भाष्ये द्वीपनामसु गोमेघेति पाठो मुद्रितः । स च मुद्रण- प्रमादजः, सम्यक् पाठस्तु 'गोमेद' इति । केषुचिच्च संस्करणेषु गोमेधः, मगधो वा पाठो दृश्यते । अत्र मगधपाठः सर्वथा असमीचीन:, पुराणादिषु द्वीपनामसु मगधनामादर्शनात् । मत्स्यपुराणे ( १२३।१, १२३।१२ ) गोमेद- शब्दो दृश्यते द्वीपनामासु । समापर्व-ज्ञानदीपिकाटीकायाम् (पृ० ११) सप्त- द्वीपनामगणनात्मकः श्लोक उपलभ्यते, तत्र गोमेदेति नाम पठ्यते, अतः गोमेद- पाठः साधुरिति । गोमेघेति नाम पुराणादिषु न दृश्यते इति ज्ञेयम् । ८–३।२६ द्वीपनामसु क्वचिद् जम्बुरिति हृस्त्रोकारात्नः पठ्यते । न स सम्यक्, 'जम्बू' - इत्यूकारान्तः पाठ एव साधुः पुराणकोशतस्तथैव प्रतीतेः । मुद्रितेषु पुराणेष्वपि ह्रस्वीकारान्तः पाठो दृश्यते, सोऽनवधानमूलक इति प्रतिभाति । ६ – ३।४० भाष्ये 'ज्वलयति' इति पाठोऽपि दृश्यते, ग्रन्थस्वारस्यात्तु ज्वलतीत्येव साधुः पाठः । १०-३।४१ ‘तथामूर्तस्ये' ति पठ्यते । अत्र अमूर्तस्य मूर्तस्येति वा छेदो भवितुमर्हति । अमूर्तस्येति पाठः स्थापितः, यतो ह्यनावरणपदमत्रैव प्रयुक्तम् । ११ - ४/६५ क्वचित् कोशे 'कथं स्विदिदम्' इति न पठ्यते । पूर्व- भाष्यसाहचर्यात् ( २।३६), बहुसम्मतिदर्शनाच्च स पाठ इह स्थापितः । १२-४।२६ भाष्ये ‘विवेकजज्ञाननिम्न' मिति पाठो दृश्यते । सूत्रे पुन- विवेकनिम्नमिति । पातञ्जलदृशा विवेकजज्ञानं विवेकज्ञानात् पृथक्, न खलु विवेकजज्ञानेन कैवल्यं भवतीति । ४।२७ भाष्येऽपि विवेक- निम्नस्येत्येव पाठो दृश्यते । अतो मन्यामहे यदत्र विवेकज्ञान निम्नमित्येव भाष्यपाठः साधुरिति । भाष्यविवरणे तु विवेकज्ञानेति पाठ एव स्वीकृतः । यदि पुनर्विवेकजज्ञाने तिः