पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काललुप्त शाखास्थिताः श्रुतयोऽपि आहृताः (द्र० २११३, २२३, ४२२ भाष्यम् ) | ४|२२ भाष्ये यद् वाक्यमस्ति तत्र ब्रह्मपदं प्रयुक्तमित्यवगन्त- व्यम् । अनेन सांख्ययोगे ब्रह्मचिन्ता नास्ति - इत्याधुनिकगवेषकाणां कथन- मयुक्तम् । आसुरिः किल ऋषीन् ब्रह्मतत्त्वम् उपदिदेशेति शान्तिपर्वणि ( २१८ | १०-१४ ) दृश्यते । ३।१४ इत्यत्र 'जलभूग्योः परिणामिकम्' इत्यादि वाक्यमस्ति उद्धृतम् । कुतः खलु वचनमिदं गृहीतमिति जायते विचारणा । एतादृशमेकं वाक्यम् सांख्यकारिकामाठरवृत्तौ ( १५ का० ) विद्यते । अत्रेदमपि विज्ञेयं यत् पूर्वाचार्या न सर्वत्र वाक्योद्धरणस्थलेषु 'तथा चोक्तम्' 'तदुक्तम्' इत्येतादृशानि वाक्यानि कथयन्ति, अतः तदुच्चारितं वाक्यं स्वकीयं वा परकीयं वेति संशो जागर्ति । दृश्यते खलु २।१ भाष्ये 'नातपस्विनः ' इत्यादिः सन्दर्भः । स च माठरवृत्तौ ( २३ का० ) पठ्यते, न पुनर्योगभाष्यकारो वाक्यमिदमुद्धरणरूपेण पपाठ । इदमपि दृश्यते यत् ४।२२ भाष्ये अररिणामीत्यादि वाक्यं योग माध्ये मूलरूपेण वर्तते, तदेव च वाक्यमुद्धरणरूपेण २।२० भाष्ये पठ्यते ( तथा चोकमित्याह भाष्यकारः ) । अतो वाक्यसाम्यबलेन उद्धरणबलेन च ग्रन्थ- काळपौर्वापर्य निर्णयो दुष्कर इव प्रतिभाति । अपरमपि दृश्यताम् । 'अहिंसा नाम सर्वभूतेषु अनभिद्रोह' इति हारीते- नोकम् ( कृत्यकल्पतरु-मोक्षकाण्डम्, पृ० ५३ घृतम् ) । तदिदं वाक्यं मूलरूपेण योगभाष्ये वर्तते ( २।१० ) । उक्तं च भाष्ये—“नानुपहत्य भूतान्युग्भोगः संभवतीति" ( २।१५ ) । इदं स्वकीयं परकीयं वा वाक्यमिति न निर्णेतुं शक्यते, जयमङ्गलायां पुनः 'सर्वं शक्यं किन्तु अनुरहत्य भूतानि न भोगः संभवतीति वाक्यमस्ति । वाक्यमिदं पूर्वतनाचायक्तिरिति प्रतिभाति । अपरमपि । चलं च गुणवृत्तमिति योगभाष्ये दृश्यते ( २११५, ३१३, ४ | १५) । अत्र वाक्यमिदं भाष्यकारस्य स्वकीयं वा परकीयं वेति न निश्चीयते- १. नेदं मन्तव्यं यद् भाष्यकारो माठरवृत्तितो वाक्यमिदमुद्धृतवानिति । इदं पूर्वाचा र्यवचन मिति भिक्षुः, मन्ये इदं पाञ्चशिखं वाक्यमिति । 1 २. बाक्यपदीये संग्रहग्रन्थतो बहूनि वचनानि संकलितानि, न च पुनर्हरिराह यदिमानि बचांस्यन्यत उद्धृतानीति । एतानि वचनानि मूलश्लोकरूपेणैव पठितानि । भट्टोजिकृते इलोकमये वैयाकरणभूषणग्रन्थेऽपि वाक्यपदीयादिभ्यः श्लोका आहृताः, न च पुनरुधरणसंकेतः कृतो दीक्षितेन, मूलश्लोकरूपेण ते श्लाका स्थापिताः । ग्रन्थान्तरेष्वपीयं शैली दृश्यते, अतो न वचनसाम्यमात्रेणैव निर्णयः कर्तव्य इति ।