पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३९ ) शास्त्रान्तरेषु योगसूत्रप्रसङ्गः, योगसूत्रप्रभावश्च –परमर्षिदृष्टसर्वव्यापि तत्त्वदर्श नसाधनभूतविद्याप्रवचनहेतुत्वादिदं योगसूत्रमतिप्रसिद्धं सर्वतः संचारि चाभवत् । योगविद्याप्रसङ्गे सर्वेषु प्रस्थानेषु साक्षाद्रूपेणासाक्षाद्रूपेण वा पातञ्जलसूत्रं स्मृतं निर्दिष्टं वा । विषयोऽयं 'योगविद्या का इतिहास - ग्रन्थे विस्तरेणाभिधास्यते । इह च समासत एकं विवरणं प्रस्तूयते- महाभारतं योगसूत्रं च - महाभारते पतञ्जलेर्नाम नोक्तमिति महत् चित्रम् । एवं सत्यपि हिरण्यगर्भयोगशास्त्रमत्र स्मृतम् । वसिष्ठो हिरण्यगर्भ तो योगं प्राप्तवान् इति स्मर्यंते ( शान्ति० ३०८ | ४५ )। अनेन हैरण्यगर्भयोगसत्ता सिद्धा।सा च पातञ्जलयोगोपजीव्यभुता । शान्तिपर्वणि (३०८८ अ० ) षड्विंश- तत्त्वरूपेण ईश्वरोल्लेखोऽस्ति । तदिदं कथनं हैरण्यगर्भयोगरीत्येति मन्तव्यम् । यद्यपि यथा जीवः किमपि 'तत्त्वं' न भवति तथैव ईश्वरोऽपि न महदादिवत् किमपि तत्त्वम्, तथाप्युपासनादृष्टया 'ईश्वरोऽपि तत्त्वविशेष' इति चिन्ता प्रच लितासीदिति गम्यते । योगसूत्रेऽपि 'तत्प्रतिषेधार्थ मेकतत्त्वाभ्यास:' ( १ । ३२ ) इत्यत्र एकतत्त्वपदं प्रयुक्तम्, तच्चेश्वरं लक्षयतीति मिश्राः । अत ईश्वरेऽपि तत्त्वपदप्रयोगो नायुक्तः । सेयं दृष्टिः साधनाश्रिता, न तत्त्वाश्रयेति स्वीकरणीयम् । महाभारते बहुत्र (विशेषतः शान्तिपर्वणि, अश्वमेधपर्वणि, अनुशासनपर्वणि च ) योगप्रसङ्गो विद्यते, तत्र योगसूत्रवत् कथनं प्रत्यक्षत उपलभ्यते । अन्यत्रापि 'सन्तोषः परमं सुखम्' इत्युक्तम् (वनपर्व २।४६) । अस्ति च योगासूत्रम् 'सन्तो- षादनुत्तमः सुखलाभः' (२।४२) इति । अन्यश्च योगसूत्रसदृशः श्लोकः शान्ति- पर्वणि — “ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात्, यथाभिमतमन्त्रेण प्रणवाद्यं जपेत् कृती" इति ( १९४/२०; श्लोकोऽयं पं० सुखलालजीसम्पादितपातञ्जल- योगदर्शन-हिन्दीभूमिकायामुद्धृतः पृ० ४७; न चायमस्मिन् स्थले दृश्यते ) । किञ्च, शान्ति० १६५ अध्यावे यो ध्यानमार्गो वर्णितः, स च पातञ्जलानु- सारीति प्रत्यक्षमेव ( यद् वा पातञ्जलोपजीव्यभूतहिरण्यगर्भयोगानुसारीति ) । १९५/१५ श्लोके वितर्कादयः शब्दा अपि प्रयुक्ताः । पुराणेषु योगसूत्रप्रसङ्गः– यतो हि योगसूत्रं प्रचलितेभ्यः पुराणेभ्यः प्राचीनतमम्, अतः योगविद्याविवरणप्रसङ्गे यौगिकतत्त्वोल्लेखे च क्वचिद् योग- सूत्रच्छाया पुराणेषु दृश्यते । योगसूत्र-पुराणयोरत्यधिकं शब्दसाम्यं पूर्वोक्तं मतमेव विज्ञापयति । दिङ्मात्रमुदाह्रियते - लिङ्गपुराणे योगविद्यावर्णनप्रसङ्गे (पूर्वार्ध ० ६ अ० ) यदुक्तं, तत् शब्दतो योगसूत्रमनुकरोति । अत्र व्याध्यादियोगान्तरायाणां दुःखादिचित्तविक्षेप-