पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लक्षणीयम् । अन्यासूपनिषत्सु नेदृशं कथनमुपलभ्यते । पातञ्जलयोगगता चर्चा सामशाखाविशेषे आसीदित्यनेन गम्यते । तथैव सामवेदीयच्छान्दोग्यो- पनिषदि समाननामक-प्राणोपासनफलभूतं यदुक्तं ( ३।१३।४) तद् योगसूत्रे- इपि (३।४०) अर्थत उक्तम् । इदमपि पूर्वोक्तार्थं ज्ञापयति । अन्यत्रापि छान्दोग्योपनिषद्गतं मतं योगसूत्रीयविचारानुरूपं दृश्यते । सामवेदीयभाल्लवि- शाखीयानि वचनानि ( सुरेश्वरसायणाभ्यां स्वग्रन्थेषूद्घृतानि ) अपि योग- सूत्रार्थ पुष्णन्तीति दृश्यते । अतः पातञ्जलयोगशास्त्रं सामवेदगतमिति अनप- लाप्यम् । इदमपि प्रतीयते यत् सामान्यत इयं योगविद्या कतिपयसामशाखासु प्रोक्तासीत्, यां विद्यामाश्रित्य सामशाखाप्रवक्ता पतञ्जलियोंगसूत्रं न्यायोपपत्ति- युक्तं प्रणिनाय । शास्त्रमिदमनुशासनपद्धत्या प्रणीतम् । सेयं पद्धतिः शतपथ- ब्राह्मणेऽपि ( ११/५/५/८) स्मृता । अतोऽतिप्राचीनकाल एवेदं सूत्रं निर्मित मिति सिद्धम् । योगसूत्ररचनाकालः– आधुनिका विद्वांसो मन्यन्ते यदिदं योगसूत्रं ईस- वीयश तकविशेषे, ईसवीयपूर्वप्रथम द्वितीयशतक विशेषे वा प्रणीतमिति । तदिदं कथनमविचारितरमणीयम्, प्राचीनतमबौद्धग्रन्थेष्वपि योगसूत्रानुकृतिदर्श- नात् । यतो हि बौद्धाचार्या एव पातञ्जलयोगमनुकृतवन्तः, अतस्तद्रचितग्रन्थेषु योगविचारपरायणेषु पातञ्जलसूत्र सदृशशब्दव्यवहारबहुलेषु क्वचिद् अज्ञानतो भ्रान्तिदृश्यते । यदि एतान् ग्रन्थान् अन्वकरिष्यत् पतञ्जलिस्तर्हि पातञ्जल- सूत्रेऽप तादृशी भ्रान्तिः स्यात्; न च दृश्यते तादृशी भ्रान्तिः, अतोऽवगम्यते- पातञ्जलसूत्र मेवानुकृतं बौद्धैः । विर्तकादिसमाधिविचारेषु प्राचीनबौद्धाचार्या न न्यायानुसारिणीं दृष्टिं प्रादर्शयन्निति दृश्यते । स्वमौलिकत्वख्यापनपरायणै- बौद्धाचार्यैरित्थमुत्सूत्रं चिन्तितमित्यतः योगसूत्रं प्राचीन बौद्धाचार्येभ्योऽपि प्राचीनतरमिति | केचिद् वदन्ति यद् योगसूत्रे बौद्धमतोल्लेखो वर्तते । तदिदं कथनमस- म्यक् । 'न तत् स्वाभासं दृश्यत्वात्' (४|११ ) इति सूत्रे स्वाभाविकशङ्काया उत्तरं दत्तम् । तथैव ‘न चैकचित्ततन्त्रम्' (४/१६) इति सूत्रमपि पूर्वसूत्रानु- सारिशङ्कोन्मूलनपरम, नेदं कमपि बौद्धपक्षं लक्षयति स्वतः । अपि चेदं सूत्रं भाष्य- मेवेति प्रतीयते । एवमन्यत्रापि योगसूत्रं न बौद्धमतं लक्षयति । अन्येषां दर्श- न १ केचन १०० ई० पू० काल इति । अपरे तु ३०० -- ५०० ई० इति । खोष्ट- पूर्वा द्वितीया शताब्दी इत्यन्ये । खोष्टपूर्वतोयशताव्दीतोऽपि प्राचीनमिदं योगसूत्रमिति केचन | द्र० I. P. ग्रन्थस्य, H. I. P. ग्रन्थस्य च पातञ्जलयोगप्रकरणम् ।