पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २९ ) ( तथा च हिरण्यगर्भे–'या नित्या' इत्यादि १।४२) ।' वचनान्तरम् 'उक्तं च हिरण्यगर्भे' इत्युक्त्वा शंकर उदाजहार 'यथा पान्थस्ये' त्यादिना ( २।१७ भाष्यम् ) । वचनान्तरं च ( अन्नाङ्गनादि) १।४१ भाष्ये दृश्यते । हिरण्यगर्भीययोगशास्त्रं परम्परायां प्रसिद्धमासीद् । अत एव योगग्रन्थेषु अन्तरा- ऽन्तरा 'ब्रह्मणा कीर्तितम्' इत्येतादृशानि वचांसि दृश्यन्ते । हैरण्यगर्भाश्रितयोग- ग्रन्थेभ्य उपर्युक्तानि वचनान्याहृतानीति प्रतीयते । महाभारतीयाश्वमेधपर्वणि ( ३५ | १५-५२।४० ) ब्रह्मप्रोक्तं यजू ज्ञानं विवृतम्, तत् सर्वथा सांखप्रयोगा- नुसारीति प्रतीयते – शब्दतोऽर्थतश्च । अतो हिरण्यगर्भयोगाश्रितमिदं प्रकरण- मिति कथनं सर्वथा साध्वेव । पुराणान्तरेष्वपि ब्रह्मोपदेशपूर्णमेतादृशं प्रकरणं विद्यत एव । वैष्णवदृष्टयास्य योगस्योपबृंहणात्मकमेकं विवरणम् अहिर्बुध्न्यसंहितायाम् ( १२ । ३१-३८ ) उपलभ्यते । अनेन सह योगसूत्रस्य शब्दतोऽर्थतश्च साम्य- मस्तीति दृश्यते। अतः 'हैरण्यगर्भशास्त्रानुसारि खल्विदं पातञ्जलशास्त्रम्' इति युक्तोऽयं प्रवादः । वयं मन्यामहे – अतिप्राचीनं हैरण्यगर्भशास्त्रं कालक्रमाद् बहुसंवादादिषु अतिविस्तृतं बभूव, अत एव तत्सारग्रहणं कृत्वा पतञ्जलि- र्योगसूत्रं प्रणिनाय । तदिदं शास्त्रमपि सांख्यसंबद्धमिति प्रागुतम् । अहि- बुध्न्यसंहितायां दर्शितं यदस्मिञ् शास्त्रे द्वे काण्डे आस्ताम्-निरोधसंहिता- कर्मसंहितानामधेये । ईश्वरप्रणिधानमप्यत्र अनुशिष्टमासीदित्यपि विज्ञायते । विस्तरतो विवृतमिदम् अन्यत्र ( O.D.S.S. T. पृ० ७० - ७२ ) । कोऽयं हिरण्यगर्भः– हिरण्यगर्भविषये मतान्तराणि दृश्यन्ते । कश्चिद्- मनुते यत् कपिल एव हिरण्यगर्भ इति । आह च भास्वतीकारः – “हिरण्य- गर्भोऽत्र परमर्षेः कपिलस्य संज्ञाभेदः । यथोक्तम्- विद्यासहायवन्तं मामित्यादिः ....----भगवतः कपिलस्यापि धर्मज्ञानादीनां सहजातत्वात् स श्रद्धावद्भिर्ऋषिभि हिरण्यगर्भाख्यया पूजित इति तस्यापि हिरण्यगर्भसंज्ञा । भगवता कपिलेनैव प्रवर्तितौ सांखयोगौ” ( १।१ ) इति । अपरे पुनः कथयन्ति–सर्गादौ ब्रह्मणा हिरण्यगर्भेण स्वाध्यायशीलानृषीन् प्रति योगविद्योपदिष्टा, अथवा तत्प्रेरणयैव स्वाध्यायवन्त ऋषयो योगविद्यां सहजातसंस्कारबलेन प्राप्तवन्तः; अत एव “स्वाध्यायादिष्टदेवतासंप्रयोगः” (२१४४ ) इति सूत्रं सार्थकं भवति । न खलु हिरण्यगर्भतो लौकिकं ज्ञानं प्रापणीयमित्यतः योगज्ञानमेव हिरण्यगर्भत उपलब्धमृषिभिरित्यभ्युपेयम् । जन्मसिद्ध्युदाहरणेषु हिरण्यगर्भमपि केचिद् गणयन्ति (हठयो• टीका ४।१४) ।