पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १९ ) सर्वशक्तिमत्त्वादयोऽपि सांखयोगशास्त्र सिद्धाः; अतो निरीश्वरं सांख्यमिति कथनं सर्वथा दुरुपपादमेव । विषयोऽयं सांख्यविद्याप्रन्थे विस्तरेण प्रतिपादितः । २. तथैव गुणरत्नसूरिकृते षड्दर्शनसमुच्चय उक्तम्- “मौलिक्यसांख्या हि आत्मानमात्मानं प्रति पृथक् प्रधानं वदन्ति, उत्तरे तु सांख्याः सर्वात्मसु अप्येकं नित्यं प्रधानम् इति प्रपन्नाः " ( द्र० ३६ कारिकाव्याख्या ) । तदिदं कथनं सर्वथा हेयमेव । प्रधानस्वभावविषये यानि स्वरूपगर्माणि विशेषणानि सांख्यसप्तत्यां योगभाष्ये शान्तिपर्वणि (२१७ अ०) च प्रदत्तानि, तत इदं गम्यते यत् प्रधानमेकमेव । न्यायानुसारिणी चिन्ता यदि क्रियते तर्हि प्रधानस्यैकत्वमेव सिद्धं भवति । मन्ये सांख्यविद्यामज्ञात्वैव सूरिरित्थं कथितवान् । अत्र कैश्चि- दुच्यते यद् मतमिदम् एकदेशिसांख्य मतमिति ( द्र० युक्तिदीपिका ५६ कारि- कास्था ) तदस्मभ्यं न रोचते न्यायविरोधात् । सोऽयं विषयः सांख्यविद्याग्रन्थे विवृत इति विरम्यते । सांख्ययोगविद्याविप्रतीपदृष्टयः- अशक्त्याऽज्ञानतो वा यथा यथा विप र्यया उत्पद्यन्ते, तथा तथा मोक्षविद्यायां कुदृष्टयोऽपि जायन्ते तत एव मिथ्यादर्शन संवलित दर्शनान्तर णामुत्पत्तिर्भवतीति न्यायानुगतं वचः । अत एव मोक्षदर्शनान्तरेषु यद्यपि सांख्ययोगविद्याऽस्ति, तथापि तेषु सांख्यज्ञान- विलक्षणानि मतान्यपि विद्यन्ते । तत् तत् सम्प्रदायगताचार्याणामशक्तिः, दृष्टि- दोषः, मोहो वा तेषां कारणमिति ब्रूमहे। अध्यात्मयोगविद्या यैश्च बाह्यैर्हेतुभिरपि विपर्यस्ता भवति, तेऽपि यथास्थानं विवृताः । तत्-तदागमोरदेशकाले ते ते दोषा यथायथम् उपजाता इत्यस्माभिरनुमीयते । सांख्ययोगविलक्षणानि कानिचिन्मतान्यत्र उदाह्रियन्ते - असंकीर्णसांख्ययोगदृष्टिः १. पुरुषः खलु चिद्रूप ऐश्वर्यशून्यः स्वरूपत, ऐश्वर्यं तु अन्तःकरणधर्मः, शैवागमिनः । अतस्तत् प्राकृतमेव प्रकाशक्रियास्थिति धर्मकत्वात् । तच्च हेयमेव, तत् प्रति वैरा- ग्यात् कैवल्यं भवति । २. ईश्वरतायुक्तान्त करणविशिष्टः विपर्यस्तदृष्टयः हि चिद्रूपोऽपि ऐश्वर्ययुक्त इति रामानुजादयश्च कल्याणगुणयुक्तं परमतत्त्वं वर्ण- यन्ति । नित्य ईश्वरः सृष्टिं करोतीति १. प्रधट्टकोऽयमतिसंक्षेपेण लिख्यते । अस्मत्प्रणीते 'सांख्यविद्या' नामधेये ग्रन्ये इमे विषयाः स्फुटीकृताः ।